SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६६ [मुनीवहम् ] मुनीनां वहम् । [कपीवहम् ] कपीनां वहम् । [ऋषीवहः ] वहन्त्यनेनेति । ' गोचर - संचर- वह व्रज - व्यज-खला SS पण निगम - बक- भग-कषा-55कष-निकपम्' (५।३।१३१) घप्र० अ । ऋषीणां वहः । [ मुनीवहः ] मुनीनां वहः । [ कपीवहः ] कपीनां वहः । [ पीलुवहम् ] पीलूनां वहम् । [दारुवहम्] दारूणां वहम् । [पिण्डवहम् ] पिण्डस्य वहम् । [ काष्ठवहम् ] काष्ठस्य वहम् ||छ || श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । शुनः ।।३।२।१९०॥ [शुनः ] वन् षष्ठी डस् । श्वन्- युवन्- मघोनो ङीस्याद्यघुट्स्वरे व उ: ' (२।१।१०६) व० उ० । [ श्वादन्तः ] शुनो दन्तः । [ श्वादंष्ट्रा ] शुनो दंष्ट्रा । [ श्वाकर्णः ] शुनः कर्णः । [ श्वाकर्दः ] शुनः कर्द: । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । अनेन दीर्घः । [ श्वापुच्छम् श्वपुच्छम् ] शुनः पुच्छम् । बहुलाधिकारात् विकल्पे दीर्घः । [श्वापदं व्याघ्रादिः] शुनः पदमिव पदमस्य । श्वापदं देहिनामत्वात् पुंस्त्वे प्राप्ते बाहुलकात् नपुंसकत्वम् । [ श्वपदम् ] शुनः पदम् । [श्वफल्कः] पल (९८२) - 'फल गतौ' (९८३) फल् । फलन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० → इ । 'ञ्णिति' (४|३ |५० ) उपान्त्यवृद्धिः । श्वानं फालयतीति । 'निष्क-तुरुष्कोदर्काऽलर्क-शुल्क-श्वफल्क-किञ्जल्कोल्कावृक्क -च्छेक-केका यस्काऽऽदयः' (उणा० २६) कप्र० निपात्यते । [ श्वमुखः ] शुनो मुखमिव मुखमस्य सः ||छ । Jain Education International एकादश षोडश षोडन् षोढा षड्ढा ।।३।२।११। [एकादशषोडशषोडषोढाषड्ढा ] एकादशा च षोडशा च षोडन् च षोढा च षड्ढा च । जस् । सूत्रत्वात् लोपः । [एकादश] एक-दशन् । एकोत्तरा दश । एकेनाधिका दश । 'मयूरव्यंसकेत्यादयः' ( ३।१।११६) समासः । एकं च दश च वा । अनेन दीर्घः । [षोडश ] षष्-दशन् । षडुत्तरा दश । षट् च दश च वा । अनेन षषोऽन्तस्योत्वम्-दस्य डत्वम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy