________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[चन्दनसारः] चन्दनस्य सारः । [खदिरसारः] खदिरस्य सारः । [अतिमार्गः] मार्गमतिक्रान्तः असौ ।
[अवसायः] 'पोंच अन्तकर्मणि' (११५०) पो । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । 'आत् सन्ध्यक्षरस्य' (४।२।१) सा, अवपूर्व० । अवस्यतीति । 'अवह-सा-संस्रोः' (५।१।६३) णप्र० → अ । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय' (१२।२३) आय् ।
अवहारः] अव ह । अवहरणम् । 'अवह-सा-संसोः' (५।१।६३) णप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् |
[दक्षिणापथः] दक्षिणा । पथिन् । दक्षिणा चासौ पन्थाश्च । 'ऋक्-पूः पथ्यपोऽत्' (७।३७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः ।
[उत्तरापथः] उत्तरा । पथिन् । उत्तरा चासौ पन्थाश्च । 'ऋक्-पूः-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः ।
[अधीदन्तः] अधिका दन्ता यस्य सः ।
[अधीकर्णः] अधिकौ कर्णौ यस्य सः ।
[अधीकण्ठः] अधिकः कण्ठो यस्य सः । [अधीपादः] अधिकौ पादौ यस्य सः ।
[पूरुषः, पुरुषः] 'पृश् पालन-पूरणयोः' (१५३२) पू । पृणाति पालयति परेषामर्थमिति । 'विदि-पृभ्यां कित्' (उणा० ५५८) किद् उषप्र० पुरुषनिपातः । अथवा 'ओष्ठयादुर' (४।४।११७) उर ।
[नारकः, नरकः] ‘कै शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य' (४।२।१) का । नरान् कायतीति । 'आतो डोऽह्वावा-मः' (५।१७६) डप्र० → अ | 'डित्यन्त्यस्वरादे:' (२११११४) आलोपः ।
[अतिशायनम्, अतिशयनम्] अति 'शीक स्वप्ने' (११०५) शी । अतिशय्यते । 'अनट' (५।३।१२४) अनटप्र० → अन । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् (१।२।२३) अय् । बहुलवचनाद् दीर्घः ।
[नीकाशः, निकाशः] नि 'काशृङ् दीप्तौ' (८३०) काश् । निकाशनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । बहुवचनाद् दी? वा ।
[प्रतीकाशः, प्रतिकाशः] प्रति ‘काशृङ् दीप्तौ' (८३०) काश् । प्रतिकाशनम् । 'भावा-5कोंः ' (५।३।१८) घञ्प्र० → अ । बहुलवचनाद् दीर्घा वा छ।।
नामिनः काशे ॥३२॥८७।।
[नीकाशः] 'काशृङ् दीप्तौ' (८३०) काश, निपूर्व० । नितरां काशते, निकाश्यते इति वा । 'अच्' (५।११४९) अच्प्र० → अ । अनेन दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org