SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पाद: ॥ [प्रतीवेशः, प्रतिवेशः] प्रति 'विशंत् प्रवेशने' (१४१५) विश् । प्रतिवेशनम् । 'भावा-ऽकत्रोंः' (५।३।१८) घप० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । प्र० सि । ‘सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । अनेन दीर्घः । [प्रतीबोधः (२)] 'बुधिं ज्ञाने' (१२६२) बुध, प्रतिपूर्व० । प्रतिबोधनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । अनेन दीर्घः ।। [परीणामः (२)] ‘णमं प्रहृत्वे' (३८८) णम् । ‘पाठे धात्वादेर्णो नः' (२।३।९७) नम्, परिपूर्व० । परिणमनम् । 'भावा-5कत्रोः' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । अनेन दीर्घः । [प्रतीहारः (२)] 'हृग् हरणे' (८८५) हृ, प्रतिपूर्व० । प्रतिहरणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) आर् । अनेन दीर्घः । _[प्रतीकारः (२)] 'डुकंग करणे' (८८८) कृ, प्रतिपूर्व० । प्रतिकरणम् । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् । अनेन सर्वत्र दीर्घः । [अतीसारः (२)] अति ‘सं गतौ' (२५) सृ । अतिसरणम् । ‘सत्तैः स्थिर-व्याधि-बल-मत्स्ये' (५।३।१७) घञ्प० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् । [वीसर्पः (२)] वि 'सृप्लं गतौ' (३४१) सृप । विसर्पणम् । घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [प्रासादो गृहम्, प्रसादोऽन्यः] 'षलू विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सद्, प्रपूर्व० । प्रसी(स)दनम् । 'भावा-ऽकोंः ' (५।३१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [प्राकारो वप्रः, प्रकारोऽन्यः] प्र 'डुकृग् करणे' (८८८) कृ । ७ प्रकरणम् । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् | [अपामार्ग औषधिः, अपमार्गोऽन्यः] अप 'मार्गण अन्वेषणे' (१९५०) मार्ग । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । + अपमार्गयतीति । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । ‘णेरनिटि' (४।३।८३) णिचुलोपः । [नीहारो हिमम्, निहारोऽन्यः] नि 'हंग् हरणे' (८८५) हृ । निहरणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) आर् । [परीरोधो मृगावरोधः, परिरोधोऽन्यः] परि ‘रु पी आवरणे' (१४७३) रुध् । परिरोधनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [परीहारो देशानुग्रहः, परिहारोऽन्यः] परि-ह । परिहरणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'नामिनोऽकलिहलेः' (४।३।५१) आर् । [वीतंसः-पक्षिबन्धनम्, वितंसोऽन्यः] वि 'तनूयी विस्तारे' (११४९९) तन् । वितन्यते । 'व्यवाभ्यां तनेरीच्च वेः' (उणा० ५६५) सप्र० वेरीकारश्चान्तादेशः । 'शि-हेऽनुस्वारः' (१।३४०) अनुस्वारः । अनेन विकल्पे दीर्घः । ॐ श० म० न्या० - प्रकीर्यते = परिविक्षिप्यते इति प्राकारो वप्रः । + श० म० न्या० - अपमृज्यते व्याध्यादिरनेनेति । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy