________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[उपनद्धम् उप-नह । उपनाते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० →त । 'नहाहोर्ध-तौ' (२।१।८५) ह० → ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ।
[विततम] वि-तन् । वितन्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि०' (४।२५५) नलोपः ।
[अयस्कृतम्] अयस् 'डुकंग करणे' (८८८) कृ । अयस्क्रियते स्म । 'क्त-क्तवतू' (५।१1१७४) क्तप्र० → त ।
[अयस्कारः] अयस् 'डुकंग करणे' (८८८) कृ । अयस्करणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) आर् | 'सो रुः' (२११७२) स० → ० । 'अतः कृ-कमि-कंस-कुम्भ-कुशा-कर्णीपात्रेऽनव्ययस्य' (२।३।५) र० → स० ।
__ [अयस्कृत्] अयस्करोतीति । 'क्विप्' (५।१।१४८) क्विप्प० । 'इस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः ।।छ।।
घज्युपसर्गस्य बहुलम् ॥३।२।८६।। [नीक्लेदः] नि 'क्लिदौच आर्द्रभावे' (११७९) क्लिद् । नितरां क्लिद्यते । 'भावा-ऽकों' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन दीर्घः ।
नीमेदः] नि 'जिमिदाच् स्नेहने' (११८०) मिद् । नितरां मेद्यति । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० →अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अनेन दीर्घः ।
__ [नीमार्गः] # नि ‘मार्गण अन्वेषणे' (१९५०) मार्ग । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । निमार्गणम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । अनेन दीर्घः ।
- [नीवारः] नि ‘वृग्ट वरणे' (१२९४) वृ । निवियते । 'नेषुः' (५।३।७४) घञ्प्र० । 'नामिनोऽकलि हलेः' (४।३।५१) आर् । अनेन दीर्घः ।
[नीशारः] कृ (१५२९) - मू (१५३०) - 'शृश् हिंसायाम्' (१५३१) शू, निपूर्व० । निशीर्यते इति । 'श्रो वायुवर्ण-निवृत्ते' (५।३।२०) घजप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) आर । अनेन दीर्घः ।
[निषादः] 'षद्लू विशरण-गत्यवसादनेषु' (९६६) षद्, निपूर्व० । 'षः सोऽष्ट्यै०' (२।३।९८) सद् । निषी(ष)दनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ ।
[विषादः] ‘षद्लं विशरण-गत्यवसादनेषु' (९६६) षद्, विपूर्व० । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । विषी(ष)दनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'णिति' (४१३५०) उपान्त्यवृद्धिः आ ।
[प्रतापः] 'तपं संतापे' (३३३) तप्, प्रपूर्व० । प्रतपनम् । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[प्रभावः] 'भू सत्तायाम्' (१) भू, प्रपूर्व० । प्रभवनम् । बाहुलकात् घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[प्रहारः] 'हंग् हरणे' (८८५) हृ, प्रपूर्व० । प्रहरणम् । बाहुलकात् घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर् । मश० म० न्यासानुसंधाने - निमार्जनमित्यर्थे निपूर्वकान्मृजेर्घञ् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org