________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[नीवृत्, उपावृत्] 'वृतूङ् वर्त्तने' (९५५) वृत्, नि-उपपूर्व० । ॥ निवर्त्तते - उपवर्त्तते । 'क्रुत्-संपदादिभ्यः क्विप्'. (५।३।११४) क्विप्प० । 'अप्रयोगीत्' (११।३७) विप्लोपः । अनेन दीर्घः ।
[प्रावृट, परीवृट] जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६) - 'वृषू सेचने' (५२७) वृष, प्र-परिपूर्व० । प्रवर्षन्ति मेघा अस्यां सा । परिवर्षन्ति मेघा यस्यां सा । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्र० । 'अप्रयोगीत्' (११३७) क्विपलोपः । अनेन दीर्घः । 'धुटस्तृतीयः' (२।१७६) प० → ड० । 'विरामे वा' (१३५१) ड० → ट० ।
[श्वावित्, मर्मावित्] श्वन् । मर्मन् । 'व्यधंच ताडने' (११५७) व्यध् । श्वानं विध्यति । मर्माणि विध्यति । 'क्रुत्संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । 'ज्या-व्यधः क्ङिति' (४।१।८१) यवृत्-विध् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'धुटस्तृतीयः' (२११७६) ध० → द० । 'विरामे वा' (१।३५१) द० → त० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[नीरुक, अतीरुक, अभीरुक] 'रुचि अभिप्रीत्यां च' (९३८) रुच, नि-अति-अभिपूर्व० । नितरां रोचते । अतिशयेन रोचते । अभिरोचते । 'क्रुत्-संपदादि०' (५।३।११४) क्विप्प० । 'अप्रयोगीत्' (१1१।३७) क्विप्लोपः । प्र० सि । 'दीर्घङ्याब्०' (१।४।४५) सिलोपः । 'च-जः क-गम्' (२/१८६) च० → क० । ।
तुरासट, ऋतीषट्] तुर । ऋति । 'पहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह । तुरं सहते ।* ऋतौ सहते । क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन दीर्घः । 'भीरुष्ठानादयः' (२।३।३३) स० → प० । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'धुटस्तृतीयः' (२।१७६) ढ० → ड० । 'विरामे वा' (१।३५१) ड० → ट० ।
[जलासट्] जलं सहते । क्विप्प्र० । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । अनेन दीर्घः । शेषं पूर्ववत् ।
[परीतत्] 'तनूयी विस्तारे' (१४९९) तन्, परिपूर्व० । परितन्यत इति । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'गमां क्वौ' (४१२५८) नलोपः । 'हूस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । अनेन दीर्घः ।
पटुरुक] 'रुचि अभिप्रीत्यां च' (९३८) रुच । रोचते । 'क्रुत-संपदा०' (५।३।११४) क्विपप्र० । 'अप्रयोगीत' (१।१।३७) क्विप्लोपः । पट्वी रुक् यस्य सः ।
[तिग्मरुक] तिग्मा रुक् यस्य सः ।
[तीवरुक्] तीव्रा रुक् यस्य सः । [श्वेतरुक श्वेता रुक् यस्य सः । ‘परतः स्त्री पुंवत् स्त्र्येकार्थेऽनू' (३।२।४९) पुंवत् । [कमलरुक] कमलवत् रुक् यस्य सः । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[निरुक्, नीरुक] रुजोत् भङ्गे (१३५०) रुज्, निपूर्व० । नितरां रुजति । क्विप्प० । 'अप्रयोगीत' (१1१1३७) विप्लोपः । ‘च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१३५१) ग० → क० । मतान्तरे विकल्पे दीर्घः ।
[अतिरुक, अतीरुक] 'रुचि अभिप्रीत्यां च' (९३८) रुच, अतिपूर्व० । अतिशयेन रोचते । क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विपुलोपः । 'च-जः क-गम्' (२१८६) च० → क० । मतान्तरे विकल्पे दीर्घः । P. निवर्त्तनम् ।
* श० म० न्या० - ऋतिं = पीडां सहते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org