________________
animawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwws
NAAMVAANNNNN
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [शङ्ककर्णः] शकुमिव कर्णी यस्याऽसौ । [द्विगुणाकर्णः] द्विगुणाविव कर्णी यस्याऽसौ ।
[द्वयगुलाकर्णः] द्वे अगुली प्रमाणमस्य । मात्रट विषये 'संख्याऽव्यायदङ्गुलेः' (७।३।१२४) डः समासान्तः → अ । 'द्विगोरनपत्ये०' (६।१।२४) अलोपः(?) ('मानादसंशये लुप्' ७।१।१४३) लुप् ) । अथवा द्वयोरगुल्योः समाहारः । अग्रे पूर्ववत् । अनेन सर्वत्र दीर्घत्वम् ।।
शोभनकर्णः] शोभनौ कर्णो यस्य सः । [लम्बकर्णः] लम्बौ कर्णावस्य सः । [अविद्धकर्णः शिशुः] अविद्धौ कर्णौ यस्य सः । [वाहनकर्णः] वाहनस्य कर्णः ।
[विष्टकर्णः] 'विष्लूकी व्याप्तौ' (११४३) विष् । विष्यते स्म । 'क्त-क्तवतू' (५।१११७४) क्तप्र० → त + विष्टौ कर्णी यस्य सः ।
[अष्टकर्णः] अष्टौ कर्णी(र्णाः) यस्य सः । [पञ्चकर्णः] पञ्च कर्णा यस्याऽसौ । [भिन्नकर्णः] भिन्नौ कर्णौ यस्याऽसौ । [छिन्नकर्णः] छिन्नौ कर्णो यस्याऽसौ । [छिद्रकर्णः] छिद्रं कर्णे यस्याऽसौ । [स्रुवकर्णः] सुवः कर्णे यस्याऽसौ । [स्वस्तिककर्णः] स्वस्तिकं कर्णे यस्याऽसौ ।
[चक्रसक्थः] चक्र-सक्थि । चक्रं सक्थिन्यस्याऽसौ । 'सक्थ्यक्ष्णः स्वाङ्गे (७।३।१२६) टः समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) इलोपः ।।छ।।
गतिकारकस्य नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनौ क्वौ ।।३।२८५॥ [गतिकारकस्य] गतिश्च कारकं च = गतिकारकम्, तस्य ।
नहिवृतिवृषिव्यधिरुचिसहितनौ नहिश्च वृतिश्च वृषिश्च व्यधिश्च रुचिश्च सहिश्च तनुश्च = नहिवृतिवृषिव्यधिरुचिसहितनु, तस्मिन् ।
[उपानत्] उप ‘णहीच बन्धने' (१२८५) णह । 'पाठे धात्वादेर्णो नः' (२।३।९७) नह । उपनाति उपनाते वा । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'नहाहोर्ध-तौ' (२।१८५) ह० → ध० । 'धुटस्तृतीयः' (२।१७६) ध० → द० । 'विरामे वा' (१३५१) द० → तक।
[परीणत्] परिन(ण)ह्यते । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'नहाहोर्ध-तौ' (२।१९८५) ह० → ध० । 'धुटस्तृतीयः' (२।१७६) ध० → द० । 'विरामे वा' (१३५१) द० →त०।
P. + विष्टं कर्णे० ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org