SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ वलच्यपित्रादेः || ३।२१८२ ॥ [वलचि] वलच् सप्तमी ङि । [अपित्रादेः ] पिता आदिर्यस्याऽसौ पित्रादिः, न पित्रादिरपित्रादिस्तस्य । [आसुतीवलः] आसवनमासुतिः । ' समिणासुगः' ( ५। ३ । ९३) क्तिप्र० । आसुतिः = सुरा साऽस्याऽस्तीति । [कृषीवलः ] कृषिरस्याऽस्तीति । [ दन्तावलः ] दन्ताः सन्त्यस्य । [उत्सङ्गावलः ] उत्सङ्गोऽस्याऽस्तीति । सर्वत्र ' कृष्यादिभ्यो वलच्' (७।२।२७) वलच्प्र० [ पुत्रावलः ] पुत्राः सन्तीति । 'कृष्यादिभ्यो वलच्' (७।२।२७) वलच्प्र० वल । अनेन दीर्घः । [पितृवलः ] पिताऽस्याऽस्तीति । [ भ्रातृवलः ] भ्राताऽस्याऽस्तीति । [मातृवलः ] माताऽस्याऽस्तीति । [ उत्साहवलः ] उत्साहोऽस्याऽस्तीति । कृष्यादिभ्यो वलच्' (७।२।२७) वलच्प्र० वल । [ कायवलम् ] काय । कायस्य वलम् । [ नागवलम् ] नाग | नागस्य वलम् ||छ || चितेः कचि ॥३॥२॥८३॥ [एकचितीकः ] एका-चिति । एका चितिरस्य सः । [द्विचितीकः ] द्वे चिती अस्याऽसौ । [त्रिचितीकः ] त्रयश्चितयोऽस्याऽसौ । सर्वत्र 'शेषाद्वा' ( ७।३।१७५) कच्प्र० क । अनेन दीर्घः “ई” ।छ।। Jain Education International ५९ वल । अनेन दीर्घः । स्वामिचिह्नस्याऽविष्टाऽष्टपञ्च-भिन्न-च्छिन्न-च्छिद्र- स्रुव - स्वस्तिकस्य कर्णे ॥३॥२॥८४॥ [स्वामिचिह्नस्य] स्वामिन्-चिह्न | स्वामी चिन्यते येन तत् । 'स्थादिभ्यः कः' (५।३।८२) कप्र० । वर्षादयः क्लीबे' ( ५।३।२९) अल्प्र० अ । तस्य । [अविष्टाऽष्टपञ्चभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ] विष्टश्च अष्टौ च पञ्च च भिन्नश्च छिन्नश्च छिद्रश्च स्रुवश्च स्वस्तिकश्च = = विष्टाऽष्टपञ्चभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकम् । न विष्टाऽष्टपञ्चभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकम् = अविष्टाऽष्टपञ्चभिन्नच्छिन्नच्छिद्र स्रुवस्वस्तिकम्, तस्य । [कर्ण] कर्ण सप्तमी ङि । [ दात्राकर्णः पशुः ] दात्रमिव दात्रम् । दात्रं = चिह्नं कर्णयोर्यस्य सः । दात्रमिव वा कर्णौ यस्य सः । मध्यमवृत्तौ श० म० न्यासानुसन्धाने एका चितिरस्मिन् । P. कर्णे० । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy