________________
५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[हंसकारण्डववती] हंसाः(हंसकारण्डवाः) सन्त्यस्यां सा ।
[चक्रवाकवती] चक्रवाकाः सन्त्यस्यां सा । [अलङ्कारवती] अलङ्काराणि विद्यन्ते यस्यां सा । [शशाङ्कवती] शशाङ्कोऽस्यामस्ति ।
[हिरण्यवती] हिरण्यमस्त्यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) डी । 'मावर्णान्तो०' (२।१।९४) म० → व० ।
वलयवती कन्या] वलया विद्यन्ते यस्याः सा ।
[शरवती तूणा] शरा विद्यन्ते यस्यां सा । 'तदस्या०' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) डी । 'मावर्णान्तो०' (२।१।९४) म० → व० ॥छ।।
ऋषौ विश्वस्य मित्रे ॥३२॥७९॥
[विश्वामित्रो नामर्षिः] विश्वं मित्रमस्य सः । अनेन दीर्घः ।
[विश्वमित्रो माणवकः] विश्वं मित्रमस्याऽसौ, माणवकः ।
[विश्वमित्रो मुनिः] विश्वं मित्रमस्याऽसौ, मुनिः ।।छ।।
नरे ॥३।२।८०॥ [विश्वानरो नाम कश्चित् विश्वे नरा अस्य सः । अनेन दीर्घः । [विश्वसेनः] विश्वा सेनायामस्य सः । 'गोश्चान्ते०' (२।४।९६) हूस्वः ।
[विश्वनरो राजा] विश्वे सर्वे नरा यस्य सः, राजा ।।छ।।
वसु-राटोः ॥३।२।८१॥ [वसुराटोः] वसुश्च राट् च = वसुराटौ, तयोः = वसुराटोः । सप्तमी ओस् । [विश्वावसुः] विश्वं वस्वस्य सः ।
[विश्वाराट्] विश्व 'राजृग् दीप्तौ' (८९३) राज् । विश्वस्मिन् राजत इति क्विप् । 'क्विप्' (५।११४८) क्विप्प० । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । अनेन दीर्घः । 'यज-सृज-मृज-राज०' (२१८७) ज० → ष० । 'धुटस्तृतीयः' (२।१।७६) ष० → ड० । 'विरामे वा' (१३५१) ड० → ८० ।
[विश्वराजौ] विश्वस्मिन् राजेते इति क्विप् । 'क्विप्' (५।१।१४८) क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । औ । ... [विश्वराजः] विश्वस्मिन् राजन्ते इति क्विप् । 'क्विप्' (५।१।१४८) क्विप्प० । 'अप्रयोगीत्' (१।१३७) क्विपलोपः । जस् ॥छ।। 卐श० म० न्या० - विश्वा सेना यस्य ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org