________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
NRNARRRRRRRRNNNNNNNNNNNNNNNNNowwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwe
[किंशुलकागिरिः] किंशुलकानां गिरिः । न्यासकार:. किंशु (?) (शु)लुक इति मन्यते ।
[साल्वागिरिः] साल्वानां गिरिः । [लोहितागिरिः] लोहितानां गिरिः । [कुक्कुटागिरिः] कुक्कुटानां गिरिः । म [खड्नागिरिः] खड्नानां गिरिः । [नलागिरिः] नलानां गिरिः । [पिङ्गलागिरिः] पिङ्गलानां गिरिः । सर्वत्र अनेन दीर्घः-आ । [कृष्णगिरिः] कृष्णस्य गिरिः । [श्वेतगिरिः] श्वेतस्य गिरिः ।छ।।
अनजिरादिबहुस्वर-शरादीनां मतौ ।।३।२७८।।
[अनजिरादिबहुस्वरशरादीनाम्] अजिर आदिर्येषां तेऽजिरादयः । न अजिरादयोऽनजिरादयः । ॐ बहुः स्वरो येषां ते = बहुस्वराः । अनजिरादयश्च ते बहुस्वराश्च = अनजिरादिवहुस्वराः । शर आदिर्येषां ते = शरादयः । अनजिरादिवहुस्वराश्च शरादयश्च = अनजिरादिबहुस्वरशरादयस्तेषाम् ।।
[उदुम्बरावती] उदुम्बराः सन्त्यस्यां सा । उदुम्बराणां निवासः । उदुम्बराणामदूरभवा । उदुम्बरैर्निर्वृत्ता । 'नद्यां मतुः' (६।२७२) मतुप्र० → मत् । 'नाम्नि' (२।१।९५) इति मस्य व० सर्वत्र ।
[मशकावती] मशकाः सन्त्यस्यां सा । मशकानां निवासः । मशकानामदूरभवा । मशकैर्निर्वृत्ता । 'नद्यां मतुः' (६।२७२) मतुप्र० → मत् ।
[वीरणावती] वीरणाः सन्त्यस्यां सा । वीरणानां निवासः । वीरणानामदूरभवा । वीरणैर्निर्वृत्ता । मतुप्र० → मत् । [पुष्करावती] पुष्कर । पुष्करैर्निवृत्ता । पुष्करशब्दाद् मत्वर्थवर्जमतुः मत्वर्थे 'पुष्करादेर्देशे' (७।२७०) इन प्राप्नोति । [अमरावती] अमरः सन्त्यस्याम् । [शरावती] शराः सन्त्यस्यां सा | शराणां निवासः । शरैर्निर्वृत्ता । शराणामदूरभवा । मतुप्र० → मत् । [वंशावती] वंशाः सन्त्यस्याम् । वंशानां निवासः । वंशैर्निर्वृत्ता । वंशानामदूरभवा । मतुप्र० → मत् । [शुचीमती] शुचिरस्त्यस्यां सा । शुचीनां निवासः । शुचीनामदूरभवा । शुचिभिनिर्वृत्ता । मतुप्र० → मत् । [कुशावती] कुशाः सन्त्यस्यां सा । कुशानां निवासः । कुशानामदूरभवा । कुशैर्निर्वृत्ता । मतुप्र० → मत् । [धूमावती] धूमोऽस्त्यस्यां सा । धूमस्य निवासः । धूमानामदूरभवा । धूमेन निवृत्तः । मतुप्र० → मत् ।
ॐ
बृहद्वृत्तौ - खदूनागिरिः । श० म० न्या० - खदूनशब्दोऽप्रसिद्धचरः, क्वचिच्च "खड्न'' इति पाठोऽपीति सूत्रवृत्त्यन्तप्रदर्शितगणपाठेनानुज्ञायते । पाणिनीये खदूनशब्द: खड्नशब्दो वा न पश्यते । बहवः स्वरा येषां ते = बहुस्वराः ।
P.
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org