SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ।। नाम्नि ।।३।२७५।। [अष्टापद: कैलाशः] अष्टन् । पद । ॥ अष्टौ पदान्यत्र सः = अष्टापदः । 'नाम्नो नोऽननः' (२।१।९१) नलोपः । [अष्टापदं सुवर्णम्] अष्टसु लोहेषु पदं(पदेषु) प्रतिष्ठाऽस्य तत् । [अष्टावक्रो मुनिः] अष्टौ वक्राण्यस्याऽसौ । [अष्टाविटपो नाम कश्चित्] अष्टौ विटपा अस्याऽसौ । [अष्टदण्डः(दंष्ट्रः)] अष्टौ दंष्ट्रा अस्याऽसौ । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । [अष्टगुणमैश्वर्यम्] अष्टौ गुणा यत्र तत् । उभयत्र दीर्घो न नामाभावात् ।।छ।। कोटर-मिश्रक-सिध्रक-पुरग-सारिकस्य वणे ।।३।२७६।। [कोटरमिश्रकसिध्रकपुरगसारिकस्य कोटरश्च मिश्रकश्च सिधकश्च पुरगश्च सारिका च = कोटरमिश्रकसिधकपुरगसारिकम् । 'क्लीबे' (२।४।९६) ह्रस्वः, तस्य । [कोटरावणम्] कोटराणां वनम् । [मिश्रकावणम्] मिश्रकाणां वनम् । [सिध्रकावणम्] सिधकाणां वनम् । [पुरगावणम्] पुर । अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ' (३९६) गम् । पुरं गच्छतीति । 'नाम्नो गमः खड्-डौ०' (५।१।१३१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२११११४) अम्लोपः । पुरगाणां वनम् । [सारिकावणम्] सारोऽस्त्येषाम् । अतोऽनेकस्वरात्' (७।२।६) इकप्र० । सारि कायन्तीति वा सारिका वृक्षाः । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । सारिकाणां वनम् । अनेन आ-णत्वं च । [कुबेरवनम्] कुबेरस्य वनम् । [शतधारवनम्] शतधारस्य वनम् । उभयत्र णत्वं न छ।। अञ्जनादीनां गिरौ ।।३।२७७॥ [अञ्जनादीनाम्] अञ्जन आदिर्येषां ते = अञ्जनादयः, तेषाम् । [गिरौ] गिरि सप्तमी ङि । 'डिडौ' (१४।२५) डौ० → औ० । [अञ्जनागिरिः] अञ्जनानां गिरिः । । [भाञ्जनागिरिः] 'भोप आमर्दने' (१४८६) भञ्ज । भज्यतेऽनेन । 'अनट्' (५।३।१२४) अनट्प० → अन । भञ्जने कुशलः । 'कुशले' (६।३।९५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । भाञ्जनानां गिरिः । [किंशुकागिरिः] किंशुमा(का)नां गिरिः । P. अष्टौ पदान्यस्य । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy