________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
तरप्प्र० → तर । 'आत्' (२।४।१८) आप्प्र० आ । ऋदुदित्-तर-तम-रूप०' ( ३।२।६३) ह्रस्वः - पुंवद्भावश्च ।
[गौरिमतितरा, गौरिमत्तरा, गौरिमतीतरा ] इयमनयोर्मध्ये [ प्रकृष्टा ] गौरिमती । 'द्वयोर्विभज्ये च तरप्' (७|३|६ ) तरपुप्र० → तर । 'आत्' (२।४।१८) आप्प्र ० आ । ऋदुदित्-तर-तम-रूप०' (३।२।६३) ह्रस्वः पुंवद्भावश्च ||छ। नवैकस्वराणाम् ||३|२|६६ ।।
५०
[ एकस्वराणाम् ] एकः स्वरो येषां ते = एकस्वरास्तेषाम् ।
[स्त्रितरा, स्त्रीतरा ] स्त्री । इयमनयोर्मध्ये प्रकृष्टा स्त्री । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन वा ह्रस्वः ।
[ज्ञितमा, ज्ञीतमा ] ज्ञस्य भार्या
'प्रकृष्टे तमप्' (७।३।५) तमप्प्र०
=
ज्ञी । 'धवाद् योगादपालकान्तात् ' (२।४।५९ ) ङी । बहूनां मध्ये प्रकृष्टा ज्ञी । तम । 'आत्' (२।४।१८) आप्प्र० आ ।
[इरूपा, ईरूपा] अ । अस्याऽपत्यं = इ-कामः । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । ' इञ इतः ' (२।४।७१ ) डी । प्रशस्ता ई | 'त्यादेश्च प्रशस्ते रूपम् (७|३|१०) रूपपप्र०
रूप ।
[किकल्पा, कीकल्पा] क । कस्य भार्या । 'धवाद् योगादपालकान्तात्' (२|४|५९ ) ङी । ईषदपरिसमाप्ता की । 'अतमबादेरीषदसमाप्ते कल्पप्० (७।३।११) कल्पपुप्र०कल्प | 'आत्' (२।४।१८) आपूप्र० → आ ।
[शिबुवा, ज्ञीबुवा ] ज्ञी चासौ बुवा च ।
[ इचेली, ईचेली] ई चासौ चेली च ।
[ किगोत्रा, कीगोत्रा ] की चासौ गोत्रा च ।
[स्त्रिमता, स्त्रीमता ] स्त्री चासौ मता च ।
[स्त्रिता, स्त्रीहता ] स्त्री चासौ हता च । अनेन वा ह्रस्वः ।
[कुटीतरा ] कुट । 'गौरादिभ्यो मुख्यान्डी : ' (२।४।१९ ) ङी । द्वयोर्मध्ये [ प्रकृष्टा ] कुटी । 'द्वयोर्विभज्ये च तरप्' ( ७।३।६) तरपुप्र० → तर ।
[दुणीतमा ] द्रो (दु) ण | 'गौरादिभ्यो मुख्यान्डीः ' (२।४।१९ ) ङी । प्रकृष्टा द्रो ( द्रु)णी । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० तम । 'आत्' (२।४।१८) आप्प्र० आ ।
[आमलकीतरा ] द्वयोर्मध्ये [ प्रकृष्टा] आमलकी । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरपुप्र० → तर । 'आत्’ (२।४।१८) आप्प्र ० आ ।
[ बदरीतमा ] प्रकृष्टा बदरी । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । 'आत्' (२।४।१८) आप्प्र० आ । [कुवलीरूपा] प्रशस्ता कुवली । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० रूप। 'आत्' (२।४।१८) आप्प्र०
Jain Education Intemational
→ आ ।
[ श्रीतरा ] इयमनयोर्मध्ये [ प्रकृष्टा ] श्रीः । द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । 'आत्' (२।४।१८) आप्प्र० आ ।
For Private & Personal Use Only
www.jainelibrary.org