________________
अथ तृतीयाध्यायस्य द्वितीयः पाद: ।।
४९
[दत्तारूपा] प्रशस्ता दत्ता । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । 'आत्' (२।४।१८) आप्प० → आ ।
सेनानीरूपा सेना । 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२१३।९७) नी । सेनां नयतीति क्विप । 'अप्रयोगीत्' (919३७) विप्लोपः । प्रशस्ता सेनानीः । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । 'आत्' (२।४।१८) आप्प० → आ ।
ग्रामणीकल्पा] ग्राम ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । ग्रामं नयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । 'ग्रामाऽग्रान्नियः' (२०३७१) न० → ण० । ईषदपरिसमाप्ता ग्रामणीः । 'अतमवादेरीषदसमाप्ते०' (७।३।११) कल्पप्प० → कल्प | ‘आत्' (२।४।१८) आप्प० → आ ।
[बदरीतरा] बदर । ‘गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डी । इयमनयोर्मध्ये प्रकृष्टा बदरी । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प० → आ ।
[आमलकीतरा] आमलक । 'गौरादिभ्यो मुख्यान्डीः' (२१४।१९) डी । इयमनयोर्मध्ये प्रकृष्टा आमलकी । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प० → आ ।।छ।।
भोगवद-गौरिमतो म्नि ।।३।२।६५।। [भोगवद्गौरिमतोः] ॥ भोगवच्च गौरिमच्च = भोगवद्गौरिमतौ, तयोः = भोगवद्गौरिमतोः । षष्ठी ओस् ।
[भोगवतितरा] भोग । भोगा विद्यन्ते यस्यां सा । 'नद्यां मतुः' (६।२७२) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) डी । 'नाम्नि' (२।१।९५) मस्य वत्वम् । इयमनयोर्मध्ये प्रकृष्टा भोगवती । 'द्वयोर्विभज्ये च तरप' (७।३।६) तरपप्र० → तर । 'आत्' (२।४।१८) आप्प० → आ ।
[गौरिमतितमा] गोर । गोरस्याऽपत्यं = गौरिः । 'अत इञ' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'नुर्जातेः' (२।४।७२) डी । प्रकृष्टा गौरवती(?) (गौरिमती) । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । 'आत्' (२।४।१८) आप्प० → आ ।।
[भोगवतिरूपा] प्रशस्ता भोगवती । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप ।
[गौरिमतिकल्पा] ईषदपरिसमाप्ता गौरिमती । 'अतमवादेरीषदसमाप्ते०' (७।३।११) कल्पप्र० → कल्प । 'आत्' (२।४।१८) आप्प्र० → आ सर्वत्र ।
[भोगवतिबुवा] भोगवती चासौ बुवा च । [गौरिमतिचेली] गौरिमती चासौ चेली च । [भोगवतिगोत्रा] भोगवती चासौ गोत्रा च । [गौरिमतिमता] गौरिमती चासौ मता च । [भोगवतिहता] भोगवती चासौ हता च । [गौरिमतिहता] गौरिमती चासौ हता च । अनेन इस्वः ।
[भोगवतितरा, भोगवत्तरा, भोगवतीतरा] इयमनयोर्मध्ये [प्रकृष्टा] भोगवती । 'द्वयोर्विभज्ये च तरप्' (७।३।६) P. भोगवांश्च गौरिमांश्च ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
www.jainelibrary.