________________
४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[सुदतितरा] सु । दन्त । शोभना दन्ता यस्याः सा | 'वयसि दन्तस्य दतृः' (७।३।१५१) दतृ→दत् । 'अधातूदृदितः' (२।४।२) डी । इयमनयोर्मध्येऽतिशयेन दती । 'द्वयोर्विभज्ये च तरप' (७।३।६) तरप्प्र० → तर । 'आत्' (२।४।१८) आप्प० → आ ।
बुवादयः कुत्साशब्दाः तदा 'निन्द्यं कुत्सनैरपापाद्यैः' (३।१।१००) इति समासः ।
[कुमारितरा] कुमार | 'वयस्यनन्त्ये' (२१४।२१) डी । इयमनयोर्मध्ये प्रकृष्टा कुमारी । 'द्वयोर्विभज्ये च तरप' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प० → आ । 'ड्यः' (३।२१६४) ह्रस्वः ।
किशोरितमा] किशोर । 'वयस्यनन्त्ये' (२।४।२१) डी । प्रकृष्टा किशोरी । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । 'आत्' (२।४।१८) आप्प० → आ | 'ड्यः' (३।२।६४) ह्रस्वः ।
[पचत्पाशा] पचन्ती । निन्द्या पचन्ती । 'निन्द्ये पाशप्' (७।३।४) पाशप्प० → पाश । 'आत्' (२।४।१८) आप्प्र० → आ । 'क्यङ्-मानि-पित्तद्धिते' (३२।५०) पुंवत् ।
[विद्ववृन्दारिका] विदुषी चासौ वृन्दारिका च । 'परतः स्त्री पुम्वत्' (३।२।४९) पुंवत् ।।छ।।
यः ।।३।२।६४॥
[गौरितरा] गौर । 'गौरादिभ्यो मुख्यान्डीः' (२१४१९) डी । इयमनयोर्मध्येऽतिशयेन गौरी । 'द्वयोर्विभज्ये च तरप' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प्र० → आ ।
[गौरितमा] गौर । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी । प्रकृष्टा गौरी । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । 'आत्' (२।४।१८) आप्प्र० → आ ।
नर्तकिरूपा] 'नृतैच् नर्तने' (११५२) नृत् । नृत्यत इत्येवंशिल्पिनी । 'नृत्-खन्-रञ्जः शिल्पिन्यकट्' (५।१।६५) अकटप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अणजेयेकण्०' (२।४।२०) डी । प्रशस्ता नर्तकी । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप । 'आत्' (२।४।१८) आप्प्र० → आ ।
[कुमारिकल्पा] कुमार । 'वयस्यनन्त्ये' (२।४।२१) डी । ईषदपरिसमाप्ता कुमारी । 'अतमवादेरीषदसमाप्ते कल्पप्०' (७।३।११) कल्पप्प० → कल्प । 'आत्' (२।४।१८) आप्प० → आ ।
[ब्राह्मणिबुवा] ब्राह्मण । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२१४५४) डी । ब्राह्मणी चासौ बुवा च ।
[गार्गिमता] गर्ग । गर्गस्य अपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'यो डायन् च वा' (२।४।६७) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । गार्गी चासौ मता च ।
[गौरिहता] गौरी चासौ हता च ।।
[मद्रिकातरा] इयमनयोर्मध्येऽतिशयेन मद्रिका । 'द्वयोर्विंभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । 'आत्' (२१४।१८) आप्प० → आ ।
[कारिकातमा] प्रकृष्टा कारिका । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । 'आत्' (२।४।१८) आप्प० →
आ
।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org