________________
अथ तृतीयाध्यायस्य द्वितीयः पाद: ।।
४७
[श्रेयसिरूपा, श्रेयोरूपा, श्रेयसीरूपा] प्रशस्ता श्रेयसी । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० →.रूप । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन ह्रस्वः - पुंवत् ।
[विदुषिरूपा, विद्वद्रूपा, विदुषीरूपा] प्रशस्ता विदुषी । ‘त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप । 'आत्' (२।४।१८) आप्प० → आ । अनेन ह्रस्वः - पुंवत् ।
[पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा] ईषदपरिसमाप्ता पचन्ती । 'अतमबादेरीषदसमाप्ते कल्पप्०' (७।३।११) कल्पप्प० → कल्प । 'आत्' (२।४।१८) आप्प० → आ ।
[विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा] ईषदपरिसमाप्ता विदुषी । 'अतमबादेरीषदसमाप्ते०' (७।३।११) कल्पप्प्र० → कल्प । 'आत्' (२।४।१८) आप्प० → आ ।
[पचन्तिबुवा, पचब्रुवा, पचन्तीबुवा] 'बूंग व्यक्तायां वाचि' (११२५) बू । ब्रवीतीति । 'बुवः' (५।११५१) इत्यनेन अच्प्रत्ययान्तो निपात्यते । पचन्ती चासौ बुवा च ।
[श्रेयसिबुवा, श्रेयोबुवा, श्रेयसीबुवा] श्रेयसी चासौ बुवा च । [विदुषिबुवा, विद्वब्रुवा, विदुषीबुवा] विदुषी चासौ बुवा च । [पचन्तिचेली, पचच्चेली, पचन्तीचेली चेल । 'अणजेयेकण-नञ्-स्न-टिताम्' (२।४।२०) डी । पचन्ती चासौ चेली
[श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली] श्रेयसी चासौ चेली च ।
[विदुषिचेली, विद्वच्चेली, विदुषीचेली] विदुषी चासौ चेली च ।
[पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा] पचन्ती चासौ गोत्रा च ।
[श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा] श्रेयसी चासौ गोत्रा च ।
[विदुषिगोत्रा, विद्वद्गोत्रा, विदुषीगोत्रा] विदुषी चासौ गोत्रा च ।
[पचन्तिमता, पचन्मता, पचन्तीमता] बुधिं (१२६२) - 'मनिंच ज्ञाने' (१२६३) मन् । मन्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्डिति' (४२१५५) नलोपः । 'आत्' (२।४।१८) आपप्र० → आ । पचन्ती चासौ मता च ।
[श्रेयसिमता, श्रेयोमता, श्रेयसीमता] श्रेयसी चासौ मता च ।
[विदुषिमता, विद्वन्मता, विदुषीमता] विदुषी चासौ मता च ।
[पचन्तिहता, पचद्धता, पचन्तीहता] 'हनं हिंसा-गत्योः' (११००) हन् । हन्यते स्म । 'क्त-क्तवतू' (५।१११७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि०' (४।२।५५) नलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । पचन्ती चासौ हता च ।
[श्रेयसिहता, श्रेयोहता, श्रेयसीहता] श्रेयसी चासौ हता च ।
[विदुषिहता, विद्वद्धता, विदुषीहता] विदुषी चासौ हता च । अनेन हूस्वः-पुंवद्वा । हतशब्दस्य पापादित्वेऽपि सूत्रत्वात् बाहुलकाद्वा समासः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org