SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४.६ [ मृगशावः, मृगीशावः ] मृग्याः शावः । [कुक्कुटाण्डम्, कुक्कुट्यण्डम् ] कुक्कुट । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४ ) ङी । कुक्कुट्या अण्डम् । [ मयूराण्डम्, मयूर्यण्डम् ] मयूर्या अण्डम् । [ काकाण्डम्, काक्यण्डम् ] काक्या अण्डम् | [ काकशावः, काकीशावः ] काक्या: शावः ॥ छ। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । ऋदुदित्-तर-तम-रूप-कल्प-बुव-चेलट्- गोत्र-मत-हते वा ह्रस्वश्च ||३|२|६३ || [ऋदुदित्] ऋच्च उच्च = ऋदुतौ, ऋदुतावितावनुबन्धौ यस्याऽसौ ऋदुदित् । [तरतमरूपकल्पबुवचेलट्गोत्रमतहते] तरश्च तमश्च रूपश्च कल्पश्च ब्रुवश्च चेलट् च गोत्रं च मतश्च हतश्च = तरतमरूपकल्पबुवचेलट्गोत्रमतहतम्, तस्मिन् । [पचन्तितरा, पचत्तरा, पचन्तीतरा ] 'डुपचष् पाके' (८९२) पच् । पचतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'श्य- शवः' (२।१।११६) अन्त्० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । ‘अधातूदृदितः ' (२।४।२ ) ङी । द्वयोर्मध्ये प्रकृष्टा पचन्ती । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर । ‘आत्’ (२।४।१८) आप्प्र ० आ । अनेन ह्रस्वः - विकल्पे पुंवत् । 'शंसू स्तुतौ च' (५५०) शंस्, प्रपूर्व० । प्रशस्यत इति । कृ-वृषि- मृजि-शंसि य । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । इदं प्रशस्यं ( २ ), [ श्रेयसितरा श्रेयस्तरा, श्रेयसीतरा] गुहि-दुहि-जपो वा' (५।१।४२) क्यप्प्र० इदमनयोर्मध्येऽतिशयेन प्रशस्यं श्रेयः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० ईयस् । 'प्रशस्यस्य श्रः' (७|४|३४) श्रः । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । 'अधातूदृदितः ' (२।४।२) डी । द्वयोर्मध्ये प्रकृष्टा श्रेयसी । 'द्वयोर्विभज्ये० ' ( ७।३।६) तरप्प्र० तर । 'आत्' (२१४११८) आप्प्र ० आ । अनेन । = [विदुषितरा, विद्वत्तरा, विदुषीतरा ] 'विदक् ज्ञाने' (१०९९) विदू । वेत्तीति । 'वा वेत्तेः क्वसुः' (५।२।२२) क्वसुप्र० → वस् । ‘अधातूदृदितः' (२।४।२) डी । 'क्वसुष्मतौ च ' (२।१।१०५) वस्० उष्० । इयमनयोर्मध्ये प्रकृष्टा विदुषी । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० तर । 'आत्' (२।४।१८) आपप्र० आ । अनेन ह्रस्वः पुंवत् । 'संस्द०, न तु 'सो रुः' (२।१।७२ ) स०र०, अस्य तद्वाधकत्वात् । ध्वंस्-क्वस्सनडुहो दः' (२।१।६८) स० [पचन्तितमा, पचत्तमा, पचन्तीतमा ] प्रकृष्टा पचन्ती । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० तम । 'आत्’ (२।४।१८) आपप्र० आ । अनेन ह्रस्वः पुंवत् । [ श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा ] प्रकृष्टा श्रेयसी । 'प्रकृष्टे तमपू' (७।३।५) तमप्प्र० तम । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन ह्रस्वः - पुंवत् । Jain Education International [विदुषितमा, विद्वत्तमा विदुषीतमा ] प्रकृष्टा विदुषी । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० (२।४।१८) आप्प्र ० आ । अनेन ह्रस्वः पुंवत् । 'संस्-ध्वंस्- क्वस्सनडुहो द: ' (२।१।६८ ) स० प्रथमोऽशिट: ' (१।३।५०) द० त० । [पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा] प्रशस्ता पचन्ती । ' त्यादेश्च प्रशस्ते रूपपू' (७|३|१०) रूपपप्र० → रूप । 'आत्' (२।४।१८) आप्प्र० आ । अनेन ह्रस्वः - पुंवत् । For Private & Personal Use Only तम । 'आत्' द० । 'अघोषे www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy