SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [अन्यदा] अन्य । ‘आत्’ (२।४।१८) आप्प्र० आ । सप्तमी ङि इ । 'आपो डितां यै- यास् ० ' (१-१४. १७) याम् । ‘सर्वादेर्डस्पूर्वाः’ (१।४।१८) डस्याम् अस्याम् । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । अन्यस्यां वेलायाम् । ‘किम्-यत्-तत्-सर्वैका०' (७।२।९५) दाप्र० । 'ऐकार्थ्ये ( ३।२।८) डिलोपः । [तर्हि ] तस्यामनद्यतनायां वेलायाम् । 'अनद्यतने र्हिः' (७।२।१०१ ) र्हिप्र० । 'ऐका' ( ३।२।८) ङिलोपः । [र्हि ] यस्यामनद्यतनायां वेलायाम् । 'अनद्यतने हि:' ( ७।२।१०१ ) र्हिप्र० । 'ऐकार्थ्य' ( ३।२।८) डिलोपः । [कर्हि] कस्यामनद्यतनायां वेलायाम् । 'अनद्यतने र्हिः' (७।२।१०१) हिप्र० । 'ऐकार्थ्य' ( ३।२।८) डिलोपः । अनेन पुंवति ततस्तथैव । [सर्वकाम्यति] सर्वा । सर्वामिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । [भवत्काम्यति] भवती । भवतीमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । [ एककाम्यति] एका । एकामिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । [सर्वप्रियः] सर्वा प्रियाऽस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [ सर्वमनोज्ञः ] सर्वा मनोज्ञाऽस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [सर्वकभार्यः] कुत्सिता सर्वा । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ । ‘अस्याऽयत्०’ (२।४।१११ ) इ । सर्विका भार्या यस्य सः । अनेन पुंवत् । 'गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः । [विश्वकभार्यः ] कुत्सिता विश्वा । ' कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ । ‘अस्याऽयत्०’ (२।४।१११ ) इ । विश्विका भार्या यस्य सः । अनेन पुंवत् । ' गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [ कन्यापुरम् ] कन्यायाः पुरम् । [कुमारीनिवासः ] कुमार्या निवासः । ४५ [उत्तरपूर्वस्यै] उत्तरा च पूर्वा च । अनेन पुंवत् । तस्यै, 'आपो डितां० ' (१।४।१७) यै । 'सर्वादेर्डस्पूर्वाः' (१।४।१८) पूर्वा० यै । 'डित्यन्त्य० ' (२।१।११४) आलोपः । Jain Education Intemational [दक्षिणोत्तरपूर्वाणाम्] दक्षिणा च उत्तरा च पूर्वा च = दक्षिणोत्तरपूर्वाः तेषाम् । अनेन पुंवत् । 'न सर्वादिः ' (१।४।१२ ) द्वन्द्वसमासे सर्वादित्वाऽभावः ॥ छ || [ मृगक्षीरादिषु ] मृगक्षीर आदियेषां ते मृगक्षीरादिषु वा ।। ३ । २।६२।। मृगक्षीरादयस्तेषु । = [मृगक्षीरम्, मृगीक्षीरम् ] मृग्याः क्षीरम् । [ मृगपदम्, मृगीपदम् ] मृग्याः पदम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy