SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ ४३ [सौघ्नत्वम्, स्रौघ्नता] स्रौघ्याः भावः । [चन्द्रमुखत्वम्, चन्द्रमुखता] चन्द्रमुख्याः भावः । → त । 'आत्' (२।४।१८) [सुकेशत्वम, सुकेशता] सुकेश्याः भावः । 'भावे त्व-तल' (७।११५५) त्व-तलप्र० आप्प्र० → आ । "सैन्याः श्रियामनुपभोगनिरर्थकत्व-मिथ्यापवादममृजन वननिम्नगानाम् । सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकाशिबिसप्रसूनाः" ||१॥ [शिशुपालवधे - ४ सर्गे] [सैन्याः] सेना । सेनां समवयति । 'सेनाया वा' (६।४।४८) ण्यप्र० → य । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । प्र० जस् । [निरर्थकत्व] निरर्थका आनुभागः । निरर्थकाया भावः । 'भावे त्व-तल' (७।११५५) त्वप्र० । तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद् दुकूलं दधानः । 卐 तदधिवसतिमागाः कामिनां मण्डनश्रीर्वजति हि सफलत्वं वल्लभालोकनेन ॥२॥ [माघे] [सफलत्वम् सफली । सफल्या भावः । 'भावे त्व-तल्' (७191५५) त्वप्र० । सि-अम् । मतान्तरे पुंवत् । [रसवत्या धूमवत्त्वम्] धूम । धूम(मो) विद्यते यस्याः सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२१११९४) म० → व० । 'अधातूदृदितः' (२।४।२) डी । धूमवत्या भावः । 'भावे त्व-तल' (७।१।५५) त्वप्र० । मतान्तरे पुंवत् । [शालाया दण्डित्वम्] दण्ड । दण्डो विद्यते यस्यां सा । 'अतोऽनेकस्वरात्' (७।२।६) इन्प० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२१४।१) ङी । दण्डिन्या भावः । 'भावे' त्व-तल' (७।१।५५) त्वप्र० । मतान्तरे पुंवत् ।।छ।। च्चौ क्वचित् ॥३।२।६०॥ लक्ष्यानुरोधेन शिष्टप्रयोगानुसारेणेत्यर्थः । [महद्भूता कन्या महत् । 'अधातूदृदितः' (२।४।२) डी । 'भू सतायाम्' (१) भू । भवति स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५।१।११) क्तप्र० → त । ‘आत्' (२।४।१८) आप्प० → आ । अमहती महतीभूता । 'कृ-भ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० । अनेन पुंवत् । [गोमतीभूता] गो । गावो विद्यते(न्ते) यस्याः सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२११) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) डी । अगोमती गोमतीभूता । अत्र न पुंवत् । [पट्वीभूता, पटूभूता] पट्वी । अपट्वी पट्वीभूता । 'कृ-भ्वस्तिभ्यां कर्म-कतृभ्यां०' (७।२।१२६) च्चिप्र० । मतान्तरे विकल्पे पुवति । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११) ऊ (?) ('दीर्घश्च्चि -यङ्' (४।३।१०८) ऊ)। [मृद्वीकृता, मृदूकृता] मृद्वी । अमृद्वी मृद्वीभूता(कृता) । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) च्चिप्र० । मतान्तरे विकल्पे पुंवति 'ईश्च्चाववर्णस्याऽनव्ययस्य' (४।३।१११) ऊ (?) ('दीर्घश्च्चि -यङ्' (४।३।१०८) ऊ) छ।। जश० म० न्यासानुसन्धाने - तदधिवसतिमित्यस्य स्थाने मदधिवसतिमिति पाठः समुचितः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy