SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [बह्वृचवृन्दारिका ] बहूवृची चासौ वृन्दारिका च । अनेन सर्वत्र पुंवत् । [ वातण्ड्यवृन्दारिका ] वतण्ड । वतण्डस्याऽपत्यं वृद्धं आङ्गिरसः । 'वतण्डात्' (६।१।४५) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । यञो डायन् च वा' (२।४।६७) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । स्त्रियां लुप्' (६।१।४६) यञ्लुप् । वतण्डी चासौ वृन्दारिका च । अनेन पुंवति सः पुनरेव यञ् आगतस्ततो वृद्धिः । ३९ [गार्ग्यवृन्दारिका] गर्ग । गर्गस्याऽपत्यम् । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । ‘यञो डायन् च वा' (२।४१६७ ) ङी । 'अस्य ड्यां लुक्' (२।४।८६ ) अलोपः । ' व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । गार्गी चासौ वृन्दारिका च । अनेन पुंवति सः पुनरेव यञ् आगतस्ततो वृद्धिः । [कापोतपाक्यवृन्दारिका] कपोतपाक । कपोतपाक एव । ' व्रातादस्त्रियाम्' (७।३:६१ ) ञ्यप्र०य । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ, स्त्री चेत् क (का) पोतपाका चासौ वृन्दारिका च । अनेन पुंवति यञ् (?) ञ्य आगतस्ततो वृद्धिः । [कौञ्जायन्यवृन्दारिका] कुञ्जस्याऽपत्यं स्त्री । 'स्त्रीबहुष्वायनञ्' (६।१।४८) आयनञ्प्र० आयन । 'वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । ' जातेरयान्त - नित्यस्त्री-शूद्रात् ' (२।४।५४) डी । कौञ्जायनी चासौ वृन्दारिका च । अनेन पुंवद्भावे कृते 'कुञ्जायन्यः ' ( ६ । १ । ४७ ) जायन्यप्र० आयन्य । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः औ । [अङ्गवृन्दारिकाः ] अङ्ग । अङ्गस्याऽपत्यानि । पुरु-मगध कलिङ्ग०' (६।१ ।११६) अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । ‘स्वाङ्गादेरकृत-मित-जात - प्रतिपन्नाद् बहुव्रीहेः ' (२।४।४६ ) ङी । आङ्गयश्च ता वृन्दारिकाश्च, अनेन पुंवत् । [गर्गवृन्दारिकाः] गर्ग । गर्गस्यापत्यम् । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र०य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । यञो डायन् च वा' (२।४।६७ ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः - गार्गी । गार्ग्यश्च ता वृन्दारिकाश्च । [ऐडविडवृन्दारिका ] इडविड् । इडविडोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपात् राजाऽपत्ये द्रिरञ्' (६।१।११४) अञ्प्र० । द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अञ्लुप् । इडविट् चासौ वृन्दारिका च । अनेन पुंवति पुनः अञ् आगते वृद्धिः । [ पार्थवृन्दारिका ] पृथ् । पृथोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपात् राजाऽपत्ये द्रिरञ्' (६।१।११४) अञ्प्र० । 'द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अञ्लुप् । पृथ् चासौ वृन्दारिका च । अनेन पुंवति पुनः अञ् आगते वृद्धिः । [दारदवृन्दारिका] दरद् । दरदोऽपत्यम् । 'पुरु-मगध- कलिङ्ग ० ' ( ६ | १|११६) अणूप्र० । 'देरञणोऽप्राच्य - भर्गादेः' (६।१।१२३) अण्लुप् । दरच्चासौ वृन्दारिका च । अनेन पुंवति पुनः अण् आगते वृद्धिः । [औशिजवृन्दारिका] उसि(शि)ज् । उसि (शि)जोऽपत्यम् । 'पुरु-मगध-कलिङ्ग०' (६।१ ।११६) अण्प्र० । 'प्रेरञणोऽप्राच्यभर्गादेः' (६।१।१२३) अण्लुप् । उसि (शि) ज् (क) चासौ वृन्दारिका च । अनेन पुंवति पुनः अण् आगते वृद्धिः । [खट्वावृन्दारिका] खट्वा चासौ वृन्दारिका च । [ब्रह्मबन्धूवृन्दारिका] ब्रह्मन् । बन्धु । ब्रह्मा बन्धुरस्याः सा । ' उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्' (२।४।७३) ऊड्ङ्ग्र० → ऊ। ‘समानानां ० ' (१।२1१ ) दीर्घः । 'नाम्नो नोऽनहूनः ' (२।१।९१) नलोपः । ब्रह्मबन्धूः चासौ वृन्दा च ॥ छ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy