________________
३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [पटुभार्यः ] पटु । 'स्वरादुतो गुणादखरोः ' (२।४।३५ ) ङी । पट्वी भार्या यस्य सः । ' परतः स्त्री० ' ( ३।२।४९)
पुंवत् ।
[ सकेशभार्यः ] सह केशैर्वर्त्तते । ' भाज- गोण-नाग - स्थल० ' (२।४।३०) ङी । सकेशी भार्या यस्य सः । 'परतः स्त्री० ' ( ३।२।४९) पुंवत् ।
[दीर्घकेशमानिनी] दीर्घकेशीं मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र०इन् । 'स्त्रियां नृतोऽस्वत्रादेर्डीः ' (२।४।२० ) डी । 'क्यङ् मानि- पित्तद्धिते' ( ३।४।२६) पुंवत् ।
[कठमानिनी] बुधिं (१२६२ ) - 'मनिंच् ज्ञाने' (१२६३) मन् । कठीं मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० → इन् । ‘ञ्णिति’ (४१३।५० ) वृद्धिः । ' स्त्रियां नृतोऽस्वत्रादेर्डी : ' (२।४।१ ) ङी । ' क्यङ् - मानि - पित्तद्धिते ' ( ३।२।५० ) पुंवत् ॥ छ।
पुंवत् कर्मधारये || ३ |२|५७॥
[पुंवत्] पुम्स् । पुमानिव । ' स्यादेरिवे' (७।१।५२) वत्प्र० । 'पदस्य ' (२।१।८९) सलोपः । ' तौ मु-मो व्यञ्ज स्वी' (१।३।१४ ) अनुस्वारः ।
[कर्मधारये ] कर्मणो धारयः = कर्मधारयस्तस्मिन् ।
[कल्याणमनोज्ञा] कल्याण | 'नवा शोणादे: ' (२।४।३१ ) ङी । कल्याणी चासौ मनोज्ञा च । अनेन पुंवत् । [मद्रिकभार्या] मद्र । मद्रेषु भवा । 'वृजि-मद्राद् देशात् कः' (६ | ३ | ३८) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ ं । ‘अस्याऽयत्-तत्-क्षिपकादीनांम्' (२।४।१११) इ । मद्रिका चासौ भार्या च ।
[लाक्षिकबृहतिका ] लाक्षिका चासौ बृहतिका च ।
[पाचकवृन्दारिका] वृन्दमस्याऽस्ति । 'वृन्दादारकः' (७।२।११) आरकप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११ ) इ । पाचिका चासौ वृन्दारिका च ।
[कारकवृन्दारिका] कारिका चासौ वृन्दारिका च ।
[पञ्चमवृन्दारिका ] पञ्चमी चासौ वृन्दारिका च । [ षष्ठवृन्दारिका ] षष्ठी चासौ वृन्दारिका च । [ दत्तवृन्दारिका ] दत्ता चासौ वृन्दारिका च । [गुप्तवृन्दारिका ] गुप्ता चासौ वृन्दारिका च । [स्रौघ्नवृन्दारिका ] सौघ्नी चासौ वृन्दारिका च ।
[दीर्घकेशवृन्दारिका ] दीर्घकेशी चासौ वृन्दारिका च ।
[ कठवृन्दारिका] कठी चासौ वृन्दारिका च ।
事
श० म० न्यासानुसंन्धाने 'असह- नञ्०' (२।४।३८) इति सूत्रे सहपूर्वस्य पर्युदासत्वात् ततो डीर्न भवतीति सकेशा भार्या यस्येति आवन्तस्यैव विग्रहे पुवद्भावो भवत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org