________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ।।
३७
[लोहेषः] लोह । लोहस्य विकारः । 'विकारे' (६।२।३०) अणप० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अणजेयेकण्०' (२।४।२०) डी । लौही ईषा यस्य सः ।
[खादिरेषः] खदिरस्य विकारः । 'विकारे' (६।२।३०) अण्प्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अणजेयेकण' (२।४।२०) डी । खादिरी ईषा यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । 'परतः स्त्री०' (३।२।४९) पुंवत्
||छ।।
स्वाङ्गान्डीर्जातिश्चाऽमानिनि ।।३।२।५६।। [स्वाहात्] स्वं च तद् अङ्गं च = स्वाङ्गम, तस्मात् । [अमानिनि]॥ न मानी = अमानी, तस्मिन् ।
[दीर्घकेशीभार्यः] दीर्घाः केशा यस्यां(याः) सा । 'असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः' (२।४।३८) डी । दीर्घकेशी भार्या यस्य सः ।
[चन्द्रमुखीभार्यः] चन्द्रवत् मुखं यस्याः सा । 'नख-मुखादनाम्नि' (२।४।४०) डी । चन्द्रमुखी भार्या यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[कलकण्ठीदेश्या] कलकण्ठ । कलः कण्ठ यस्याः सा । ‘गौरादिभ्यो मुख्यान्डीः' (२।४।१९) डी । ईषदपरिसमाप्ता कलकण्ठी । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (७।३।११) देश्यप्प्र० → देश्य । ‘आत्' (२।४।१८) आप्प्र० → आ ।
तनुगात्रीचरी] तनु-सूक्ष्मं गात्रं यस्याः सा । 'वयस्यनन्त्ये' (२।४।२१) डी । भूतपूर्वा तनुगात्री । 'भूतपूर्वे प्चरट्' (७।२७८) प्चरटप० → चर । 'अणजेयेकण्०' (२।४।२०) डी ।
[चन्द्रमुखीयते चन्द्रमुखी इवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यङ्ग्र० → य । वर्त० ते ।
कठीभार्यः] कठ । कठं (कठेन प्रोक्तं) वेत्त्यधीते वा । 'तद्वेत्त्यधीते' (६।२।११७) अणप्र० (?) । (तेन प्रोक्ते' (६।३।१८१) अणप्र०) । 'प्रोक्तात्' (६।२।१२९) अण्लोपः । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) डी । कठी भार्या यस्य सः ।
[बहुवृचीभार्यः] बहु । 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । बढ्य ऋचो यस्याः सा । 'परतः स्त्री पुंवत्' (३।२।४९) पुंवत् । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४५४) डी । बढची भार्या यस्य सः ।
[बचीचरी] भूतपूर्वा बढची । 'भूतपूर्व प्चरट्' (७।२।७८) प्चरटप० → चर । 'अणजेयेकण्' (२।४।२०) डी । [शूद्राभार्यः] शूद्रा भार्या यस्य सः । [क्षत्रियाभार्यः] क्षत्रिया भार्या यस्य सः । [शूद्रापाशा] निन्द्या शूद्रा । निन्द्ये पाशप्' (७।३।४) पाशप्प्र० → पाश । ‘आत्' (२।४।१८) आप्प० → आ ।
[क्षत्रियादेश्या] ईषदपरिसमाप्ता क्षत्रिया । 'अतमबादेरीषदसमाप्ते०' (७।३।११) देश्यप्प० → देश्य । 'आत्' (२।४।१८) आप्प० → आ । P. मन मानिन् = अमानिन्, तस्मिन् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org