SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [नादेयीरूपा ] नदी । नद्यां भवा । 'नद्यादेरेयण्' (६।३।२) एयण्प्र० एय । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८ ) ईलोपः । 'अणञेयेकण्०' (२।४।२० ) ङी । प्रशस्ता नादेयी । ' त्यादेश्च प्रशस्ते रूपप् रूप । 'आत्' (२।४।१८) आप्प्र० आ । ( ७।३।१०) रूपपप्र० ३६ [सौतमीयते] सौतङ्गमी । सौतङ्गमीवाऽऽचरति । 'क्यङ्' ( ३।४।२६ ) क्य०य । वर्त्त० ते । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [वैदर्भीमानिनी] वैदर्भी मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । प्र० सि । 'इन्- हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । दीर्घड्याव्-व्यञ्जनात् से: ' (१।४।४५ ) सिलोपः । इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [स्रौघ्नीमानिनी] स्रौघ्नीं मन्यते । 'मन्याण्णिन्' ( ५ । १ ।११६ ) णिन्प्र० प्र० सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याव् ० ' (१।४।४५) सिलोपः । [काण्डलावभार्यः] ‘लूग्श् छेदने' (१५१९) लू । काण्डं लुनातीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० अ । ‘नामिनोऽकलि-हलेः’ (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अणञेयेकण्०' (२।४।२० ) ङी । काण्डलावी भार्या यस्य सः । ' परतः स्त्री० ' ( ३।२।४९) पुंवत् । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [अर्द्धप्रस्थभार्यः] अर्द्धप्रस्थे भवा । ' भवे' ( ६ | ३ | १२३) अण्प्र० अ । 'अर्द्धात् परिमाणस्याऽनतो वा त्वादेः ' (७।४।२०) उभयपदवृद्धिनिषेधः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'अणञेयेकण्०' (२।४।२० ) ङी । + अर्द्धप्रस्थी भार्या यस्य सः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । [शोभनतरभार्यः] शोभनतरा भार्या यस्य सः । [मध्यमभार्यः] मध्यमा भार्या यस्य सः । ' गोश्चान्ते० ' (२।४।९६ ) ह्रस्वः । ' परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ( ३।२।४९) पुंवत् । [वैयाकरणभार्यः] व्याकरण । व्याकरणं वेत्त्यधीते वा । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० अ । ‘लोकात्’ (१।१।३) व् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७|४|५ ) " ऐत्” आगमः । 'अणञेयेकण्० ' (२।४।२० ) ङी । वैयाकरणी भार्या यस्य सः । अत्र स्वरस्थाने न वृद्धिः, किन्तु वृद्धिरागमः । 'परतः स्त्री० ' ( ३।२।४९ ) पुंवत् । [काषायबृहतिकः ] कषाय । कषायेण रक्ता । ' रागाट्टो रक्ते' (६।२।१) अणुप्र० अ । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । ‘अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणञेयेकण्० ' (२।४।२०) डी । बृह ( ५५९) 'बृहु शब्दे च' (५६०) बृह् । ‘उदितः स्वरान्नोऽन्तः' (४|४|१८) बृन्ह् । बृंहतीति । 'द्रुहि-बृहि-महि- पृषिभ्यः कतृः' (उणा० ८८४) किद् अतृप्र० अत् । 'अधातूदृदितः' (२।४।२ ) ङी । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । वृहत्येव । ' तनु-पुत्राऽणु-बृहती-शून्यात्सूत्र - कृत्रिम - निपुणा - SSच्छादन०' (७।३।२३) कप्र० । 'आत्' (२।४।१८) आप्प्र० आ । 'ड्यादीदूतः के' (२।४।१०४) ह्रस्वः । काषायी बृहतिका अस्य सः । [माञ्जिष्ठवृहतिकः ] मञ्जिष्ठा । मञ्जिष्ठया रक्ता । 'रागाट्टो रक्ते' (६।२।१) अण्प्र० अ । ' वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । ‘अवर्णेवर्णस्य' (७।४।६८) आलोपः । 'अणञेयेकण्०' (२।४।२० ) ङी । बृहतिका पूर्ववत् । माजिष्ठी बृहतिका यस्य सः । वृहद्वृत्तौ नादेयीचरी । उणादौ धातुपारायणे च 'बृह वृद्धी' । Jain Education Intemational P + अर्द्धप्रस्था | For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy