________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[पञ्चमीभार्यः] पञ्चन् । पञ्चानां पूरणी । 'नो मट्' (७।१।१५९) मटप० → म । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ड्यां लुक्' (२।४।१११) अलोपः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । पञ्चमी भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[द्वितीयाकल्पा] ईषदपरिसमाप्ता द्वितीया । 'अतमवादेरीषदसमाप्ते०' (७।३।११) कल्पप्प० → कल्प | ‘आत्' (२।४।१८) आप्प० → आ ।
[पञ्चमीदेश्या] ईषदपरिसमाप्ता पञ्चमी । 'अतमवादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (७।३।११) देश्यप्प० → देश्य । 'आत्' (२।४।१८) आप्प० → आ ।
[पञ्चमीयते पञ्चमी । पञ्चमीवाऽऽचरति । 'क्यङ' (३।४।२६) क्यप्र० → य । वर्त्त० ते । 'कर्त्तर्यनदभ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[षष्ठीमानिनी] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । षष्ठीं मन्यते । 'मन्याण्णिन्' (५1१1११६) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी ।
[दत्ताभार्यः] 'डुदांग्क् दाने' (१।११३८) दा । देयादेनाम् । ‘तिक्कृतौ नाम्नि' (५।१७१) क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत्० । 'आत्' (२।४।१८) आप्प्र० → आ । दत्ता भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) हूस्वः ।
. [गुप्ताभार्यः] 'गुपच् व्याकुलत्वे' (११९२) गुप् (?) ('गुपौ रक्षणे' (३३२) गुप्) । गोपाय्यादेनां = गुप्ता । 'तिक्कृतौ नाम्नि' (५।१७१) क्तप्र० →त । 'आत्' (२।४।१८) आप्प्र० → आ । गुप्ता भार्या यस्य सः । 'गोश्चान्ते०' (२।४।९६) हूस्वः ।
___ [दत्तारूपा] प्रशस्ता दत्ता । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प्र० → रूप । ‘आत्' (२।४।१८) आप्प्र० → आ ।
[गुप्तापाशा] निन्द्या गुप्ता । 'निन्द्ये पाशप्' (७।३।४) पाशप्प० → पाश । 'आत्' (२।४।१८) आप्प्र० → आ।
[गुप्तामानिनी] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । गुप्तां मन्यते । 'मन्याण्णिन्' (५।१।११६) णिन्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) डी ।
[पाकभार्यः] 'डुपची पाके' (८९२) पच् । पचनम् । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्चजोः क-गौ घिति' (४।१।१११) च० → क० । 'आत्' (२।४।१८) आप्प्र० → आ । पाका भार्या यस्य सः । 'परतः स्त्री०' (३।२।४९) पुंवत् । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[मूकभार्यः] 'मूङ् बन्धने' (६०१) मू । वाचं मवत इति । 'विचि-पुषि-मुषि-शुष्यवि-सृ-वृ-शु-सु-भू-धू-मू-नी-वीभ्यः कित्' (उणा० २२) कित् कप्र० । 'आत्' (२।४।१८) आप्प० → आ । मूका भार्या यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[जल्पाकभार्यः] रप (३३५) - लप (३३६) - ‘जल्प व्यक्ते वचने' (३३७) जल्प । जल्पतीत्येवंशीला । 'वृङ् - भिक्षि-लुण्टि-जल्पि-कुट्टाट्टाकः' (५।२७०) टाकप्र० → आक | 'आत्' (२।४।१८) आप्प० → आ । जल्पाका भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) हूस्वः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org