________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[कल्याणीदुहितृकः] कल्याणी दुहिता यस्य सः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० →क । [कल्याणीभक्तिः] कल्याणी भक्तिरस्य सः । [दृढभक्तिः ] दृढं भक्तिरस्य सः । [स्थिरभक्तिः] स्थिरं भक्तिरस्य सः । [शोभनभक्तिः] शोभनं भक्तिरस्य सः । [परिपूर्णभक्तिः ] परिपूर्ण भक्तिरस्य सः ।
दृढमित्यत्र सामान्यविवक्षायां नपुंसकत्वम् । [कल्याणप्रमाणाः] कल्याणी प्रमाणी येषां ते । 'प्रमाणी-संख्या०' (७।३।१२८) डप्र० → अ । “डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[प्रियावामः] प्रिया वामा यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः ।।छ।।
तद्धिताककोपान्त्यपूरण्याख्याः ।।३।२।५४।। [तद्धिताककोपान्त्यपूरण्याख्याः] तद्धितश्च अकश्च = तद्धिताको, तद्धिताकयोः कः = तद्धिताककः, तद्धिताकक उपान्त्यो येषां ते = तद्धिताककोपान्त्याः, तद्धिताककोपान्त्याश्च पूरण्यश्च आख्याश्च = तद्धिताककोपान्त्यपूरण्याख्याः, प्रथमाबहु० जस् ।
[मद्रिकाभार्यः] मद्र । मद्रेषु भवा । भवेऽर्थे 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप्र० । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ । मद्रिका भार्या यस्य सः ।
[वृजिकाभार्यः] वृजि । वृजिषु भवा । भवेऽर्थे 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप्र० । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्०' (२।४।१११) इ । वृजिका भार्या यस्य सः ।
[लाक्षिकीभार्यः] लाक्षा । लाक्षया रक्ता । रक्तेऽर्थे 'लाक्षा-रोचनादिकण्' (६।२।२) इकणप्र० → इक । 'अवर्णेवर्णस्य' (७१४।६८) आलोपः । 'अणजेयेकण-ना-स्ना-टिताम' (२।४।२०) डी । 'अस्य डया लक' (२।४।८६) अलोपः । लाक्षिकी भार्या यस्य सः ।
[लाक्षिकीबृहतिकः] बृहत् । 'अधातूदृदितः' (२।४।२) डी । बृहत्येव । 'तनु-पुत्रा-ऽणु-बृहती-शून्यात् सूत्र-कृत्रिमनिपुणा-ऽऽच्छादन०' (७।३।२३) कप्र० । 'ड्यादीदूतः के' (२।४।१०४) हूस्वः । 'आत्' (२।४।१८) आप्प० → आ । लाक्षिकी वृहतिका यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः ।
[लाक्षिकीदेश्या ईषदपरिसमाप्ता लाक्षिकी । ‘अतमबादेरीषदसमाप्ते कल्पप्-देश्यप-देशीयर' (७।३।११) देश्यपप्र० → देश्य । ‘आत्' (२।४।१८) आप्प० → आ ।
卐 [रोचनिकीकल्पा] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रुच्यते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'आत्' (२।४।१८) आप्प्र० → आ । रोचनया रक्ता । 'लाक्षा-रोचनादिकण्' (६।२।२) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४19) वृद्धिः औ । अवर्णेवर्णस्य (७।४।६८) आलोपः । 'अणंजेयेकण्' (२।४।२०) डी । ईषदपरिसमाप्ता रौचनिकी । ‘अतमवादेरीषदसमाप्ते कल्पप्०' (७।३।११) कल्पपप्र० → कल्प । 'आत्' (२।४।१८) आप्प्र० → आ । म बृहद्वृत्तौ-रोचनिकीचरी ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org