SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पाद: ।। wwwwwwanNNNNNNNNNNNNNNNNNNNNNN wwwww [आग्नेयः स्थालीपाकः] अग्नायी देवताऽस्य सः । 'कल्यग्नेरेयण' (६।११७) एयणप्र० → एय । अनेन पुंवत्अग्नि । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । श्यनेयः] श्येत । 'श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२१४।३६) डी-तस्य न० । श्येन्या अपत्यम् । 'द्विस्वरादनद्याः' (६।१७१) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरलोपः । [रोहिणेयः] रोहित । 'श्येतैत-हरित-भरत०' (२।४।३६) डीप्र० - तस्य न० । 'रपृवर्णान्नो ण०' (२।३।६३) न० → ण० । रोहिण्या अपत्यम् । 'ड्याप्-त्यूङः' (६।१७०) एयणप्र० → एय । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः ।।छ।। नाऽप-प्रियाऽऽदौ ।।३।२।५३।। [न] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [अपप्रियाऽऽदौ卐 प्रिय आदिर्यस्याऽसौ प्रियादिः । अप च प्रियादिश्च = अप्रियादिस्तस्मिन् । [कल्याणीपञ्चमा रात्रयः] कल्याण । 'नवा शोणादेः' (२।४।३१) डी । पञ्चन् । पञ्चानां पूरणी । 'नो मट्' (७।१।१५९) मटप्र० → म । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) डी । कल्याणी पञ्चमी आसां ताः । 'पूरणीभ्यस्तत्प्राधान्येऽप्' (७।३।१३०) अप् । 'अवर्णवर्णस्य' (७।४।६८) ईलोपः । 'आत्' (२।४।१८) आप् । प्रथमाबहु० जस् । [कल्याणीदशमा रात्रयः] दशन् । दशानां पूरणी । 'नो मट्' (७।१।१५९) मटप० → म । 'अणजेयेकण्' (२।४।२०) डी । कल्याणी दशमी आसां ताः । 'पूरणीभ्यस्तत्प्राधान्येऽप्' (७।३।१३०) अप् । “अवर्णेवर्णस्य' (७।४।६८) ईलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमावहु० जस् । [बचश्चरणः] बहु । 'स्वरादुतो गुणादखरोः' (२।४।३५) डी । 'इवर्णादे०' (१।२।२१) व० । वढ्य ऋचो यस्य सः । 'नञ्-बहोर्ऋचो माणव-चरणे (७।३।१३५) अप्प्र० → अ । 'परतः स्त्री०' (३।२।४९) पुंवत् । [भव्याप्रियः] भव्या प्रिया अस्य सः । [भव्यामनोज्ञः] भव्या मनोज्ञा यस्य सः । [प्रियाकल्याणीकः] प्रिया कल्याणी यस्य सः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । [प्रियासुभगः] प्रिया सुभगा यस्य सः । [कल्याणीदुर्भगः] कल्याणी दुर्भगा यस्य सः । [कल्याणीस्वः] कल्याणी स्वा यस्य सः । [प्रियाक्षान्तः] प्रिया क्षान्त्या(क्षान्ता) यस्य सः । [प्रियाचपलः] प्रिया चपला यस्य सः । [प्रियाबालः] प्रिया बाला यस्य सः । [कल्याणीतनयः] कल्याणी तनया यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । P. प्रिय आदिर्येषां ते = प्रियादयः । अप च प्रियादयश्च, तस्मिन् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy