________________
३०
‘कर्त्तर्यनद्भ्यः शव्’ (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ हस्तिन्यः]
हस्तिनी अग्रे जस् ।
[एनीयति] एनी । एनीमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[ एन्यः ] एनी अग्रे जस् ।
[यौवतम्] युवन् । ‘यूनस्तिः ' (२।४।७७) तिप्र० । युवतीनां समूहः । +' भिक्षादेरण्' (६।२।१० ) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) इलोपः । प्र० सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [ कौण्डिन्यः ] कुण्डिनी । कुण्डिन्या अपत्यम् । 'गर्गादर्यञ्' (६।१।४२) यञ्प्र०य । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८ ) ईलोपः ।
[मानाय्यः ] मनु । मनोर्भार्या । 'मनोरौ च वा' (२।४।६१) डीप्र० ऐश्चान्तस्य । 'एदैतोऽयाय्' (१।२।२३) आय् । मनाय्या अपत्यम् । ‘गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । ' वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' ( ७|४|६८ ) ईलोपः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[सापत्नः] समानः पतिरस्याः सा । ' सपत्न्यादौ' (२।४।५०) डीप्र० - न् च । 'समानस्य धर्माऽऽदिषु' ( ३।२।१४९) सभावः । सपत्न्या अपत्यम् । 'शिवादेरण्' ( ६ । १ । ६० ) अण्प्र० । ( वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य’ ( ७।४।६८ ) ईलोपः । सपत्नी भार्या यस्य सः । 'गोश्चान्ते० ' (२१४ ।९६) ह्रस्वः । सपत्नी । सपत्न्यास्तुल्याः । 'अः सपत्न्याः ' (७।१।११९) अप्र० । सपत्न्या अयम् । 'तस्येदम् ' ( ६ |३|१६० ) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः
आ । 'अवर्णेवर्णस्य' (७१४/६८) अन्त्यस्वरलोपः ।
-
[पाटवम् ] पट्वी । पट्ट्या भावः । अनेन पुंवति 'भवे' (६।३।१२३) अणूप्र० । ' वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । सि-अम् ।
[पट्वीरूप्यम् ] पट्ट्या आगतम् । 'नृ-हेतुभ्यो रूप्य - मयटी वा' ( ६ | ३|१५६) रूप्यप्र०
।
[पट्वीमयम् ] पट्ट्ट्या आगतम् । 'नृ-हेतुभ्यो रूप्य - मयटी वा' (६।३।१५६) मयट्प्र० मय ||छ ।
एयेऽग्नायी || ३ |२| ५२ ॥
[ ए ] एय सप्तमी ङि ।
[ अग्नायी ] अग्नायी । प्र० सि । 'दीर्घङ्याब्० ' (१।४।४५ ) सिलोपः ।
[ आग्नेयः ] अग्नि । अग्नेर्भार्या । 'पूतक्रतु- वृषाकप्यग्नि-कुसित-कुसीदादै च ' (२।४१६०) डीप्र० ऐश्चाऽन्तस्य । 'एदैतोऽयाय्' (१।२।२३) आय् । अग्नाय्या अपत्यम् । 'कल्यग्नेरेयण्' (६।१।१७) एयण्प्र० अग्नि । 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७१४२६८) इलोपः ।
एय० । अनेन पुंवत्
Jain Education International
-
For Private & Personal Use Only
P. हस्तिनीयतीति क्विप् । 'अतः' (४।३।८२) अलोपे 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपे च जसि 'योऽनेकस्वरस्य ' (२1१/५६) यत्वे च सिद्धम् ।
+ लघुवृत्ती
'भिक्षादेः' ।
-
-
www.jainelibrary.org