SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २९ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [श्यैत्यम्] श्येन्या भावः । 'वर्ण-दृढादिभ्यष्ट्यण् च वा' (७।१।५९) ट्यण्प्र०य । ' वृद्धिः स्वरेष्वादे० ' ( ७ ४. १) वृद्धिः ऐ । अनेन पुंवत् । ततः ट्यण्प्र०य । [लौहित्यम्] रोहित । ‘श्येतैत- हरित-भरत - रोहिताद्०' (२।४।३६) डी- तस्य न० । 'ऋफिडादीनां डश्च लः' (२।३।१०४) र० → ल० । लोहिन्या भावः । अनेन पुंवत् । 'वर्ण-दृढादिभ्यष्ट्यण् च वा' (७।१।५९) ट्यण्प्र०य । ‘वृद्धिः स्वरेष्वादे०’ ( ७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [भावत्कम्] ‘भांक् दीप्तौ’ (१०६१) भा । भातीति । 'भातेर्डवतुः' (उणा० ८८६) डवतुप्र० अवत् । ' डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः । 'अधातूदृदितः ' (२।४।२) डीप्र० । भवत्या इदम् । पुंवद्भावे कृते भवतोरिकणीयसौ' (६।३।३०) इकण्प्र० इक । 'ऋवर्णोवर्ण- दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१ ) इकण्संबन्धिन्या इलोपः । [भवदीयम्] भवन्या इदम् । 'भवतोरिकणीयसौ' ( ६ | ३ | ३० ) ईयसुप्र० । [पटिष्ठा] पटु । ‘स्वरादुतो गुणादखरोः ' (२।४।३५ ) ङी । इयं पट्वी (२), इयमासां मध्येऽतिशयेन पट्टी । पुंवद्भावे कृते 'गुणाङ्गाद् वेष्ठेयसौ(सू) (७।३।९) इष्ठप्र० । अनेन पुंवत् । ' त्रन्त्यस्वरादेः' (७।४।४३) उत्लोपः । 'आत्' (२।४।१८ ) आप्प्र० आ । [पटीयसी] पटु । 'स्वरादुतो गुणादखरोः ' (२।४।३५) ङी । इयं पट्वी (२), इयमासां मध्येऽतिशयेन पट्वी । पुंवद्भावे कृते 'गुणाङ्गाद् वेष्ठेयसौ(सू)' (७।३।९ ) ईयसुप्र० ईयस् । अनेन पुंवत् । 'त्रन्त्यस्वरादेः' (७।४।४३) उलोपः । 'अधातूदृदितः ' (२।४।२) डी | [दारद्यः] दरद् । दरदोऽपत्यं स्त्री । 'पुरु-मगध कलिङ्ग०' (६।१।११६) अण्प्र० । 'देरञणोऽप्राच्य भर्गादेः' (६।१।१२३) अण्लोपः । दरदि साधुः । अनेन पुंवद्भावे कृतेऽण् पुनरेव स आगतः, ततो 'वृद्धिः स्वरेष्वादे० ' ( ७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'तत्र साधी' (७।१।१५) यप्र० । [औशिज्यः] उसि(शि)ज् । उसि (शि) जोऽपत्यम् । 'पुरु-मगध कलिङ्ग०' (६।१ ।११६) अण्प्र० । 'रञणोऽप्राच्यभर्गादेः' (६।१।१२३) अण्लोपः । उसि (शि) जि साधुः । ' तत्र साधौ ' ( ७।१।१५) यप्र० । अनेन पुंवत्कृतेऽण् पुनरेवाऽऽयातस्ततो 'वृद्धिः . स्वरेष्वादे० ' (७।४।१) वृद्धिः औ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [गार्गः] गर्ग । गर्गस्याऽपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२ ) यञ्प्र० य । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । यञो डायन् च वा' (२।४।६७ ) ङी - डायन आयनन्ते । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः । गार्ग्यायण्याः कुत्सितमपत्यम् । 'वृद्धस्त्रियाः क्षेपे णश्च' (६।१।८७) णप्र० अ । अनेन पुंवत् । 'तद्धितयस्वरेऽनाऽऽति' (२।४।९२) यलोपः । [गार्गिकः ] गार्ग्यायण्याः कुत्सितमपत्यम् । वृद्धस्त्रियाः क्षेपे णश्च' (६।१।८७) इकण्प्र० इक । अनेन पुंवत् । 'तद्धितयस्वरेऽनाऽऽति' (२।४।९२) यलोपः । [हास्तिकम्] हस्त । हस्तो विद्यते यासां ताः । 'हस्त- दन्त-कराज्जातौ' (७।२।६८) णिन्प्र० ( इन्प्र० ) । 'अवर्णेवर्णस्य’ (७।४।६८) अलोपः । 'स्त्रियां नृतोऽस्वस्त्रादेर्डी:' ( २।४।१ ) ङी । हस्तिनां समूहः = हास्तिकम् । ‘कवचि-हस्त्यचित्ताच्चेकण्’ (६।२।१४ ) इकण्प्र० इक । पूर्वमनेन पुंवति इकण् । 'वृद्धिः स्वरेष्वादे० ' ( ७|४|१) वृद्धिः आ 'नोऽपदस्य तद्धिते' (७|४|६१ ) अन्त्यस्वरादिलोपः । [हस्तिनीयति] हस्तिनी । हस्तिनीमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । वर्त्त० तव् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy