SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पाद: । [बहुत्र] बह्वीषु = बहुत्र । 'सप्तम्याः ' (७।२।९४) अप्प्र० → त्र। [बहशो देहि] वहवीभ्यो देहि = बहुशः । बह्वल्पार्थात् कारकादिष्टाऽनिष्टे प्रशस्' (७।२।१५०) शस्प्र० → शस् । [अल्पशो देहि] अल्पाभ्योऽल्पशः । 'बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे प्रशस्' (७।२।१५०) शस्प्र० → शस् । [दर्शनीयपाशा] दर्शनीया । निन्द्या दर्शनीया । 'निन्द्ये पाशप' (७।३।४) पाशप्प्र० → पाश । [पक्वतमा] 'डुपची पाके' (८९२) पच् । पच्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० →त । ':-शुषि-पचो म-क-वम्' (४।२।७८) त० → व० । 'च-जः क-गम्' (२।१८६) च० → क०, अस्मिन् कर्तव्ये 'क्तादेशोऽषि' (२।१।६१) इत्यनेन क्तस्यादेशो नित्यं सञ्जातः । 'आत्' (२।४।१८) आप्प० → आ । इयमासामतिशयेन पक्वा । 'प्रकृष्टे तमप्' (७।३।५) तमप्प्र० → तम । [पक्वतरा] इयमनयोरतिशयेन पक्वा । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । 'आत्' (२।४।१८) आप्प० → आ । दर्शनीयरूपा] दर्शनीय । 'आत्' (२।४।१८) आपप्र० → आ । प्रशस्ता दर्शनीया । 'त्यादेश्च प्रशस्ते रूपप्' (७।३।१०) रूपप्प० → रूप । [दर्शनीयकल्पा] ईषदपरिसमाप्ता दर्शनीया । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर् (७।३।११) कल्पप्प० → कल्प। [दर्शनीयदेश्या] ईषदपरिसमाप्ता दर्शनीया । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (७।३।११) देश्यप्प० → देश्य । [दर्शनीयका] हूस्वा दर्शनीया । 'प्राग् नित्यात् कप्' (७।३।२८) कप्प० → क । 'आत्' (२।४।१८) आप्प० → आ । असंदेहार्थं 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इति इकारो न । [दारदिका] दरद् । दरदो राज्ञोऽपत्यं स्त्री । 'पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण' (६।१।११६) अण्प्र० । 'देरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अण्लोपः । कुत्सिता दरत् । 'प्राग् नित्यात् कप्' (७।३।२८) कप्प० → क । अनेन मुंबढ़ावे कृते पुनरेव अण् आगते 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । अनेन सर्वत्र पुंवत् । [पट्विका] पटु । 'स्वरादुतो गुणादखरोः' (२।४।३५) डी । कुत्सिता पट्वी । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प० →क | ‘आत्' (२।४।१८) आप्प० → आ । 'ङ्यादीदूतः के' (२।४।१०४) ह्रस्वः । [मृद्विका] मृदु । 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । कुत्सिता मृद्वी । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प० → क । 'आत्' (२।४।१८) आप्प० → आ । ‘ड्यादीदूतः के' (२।४।१०४) ह्रस्वः । [पट्वीरूप्यम्] पव्या आगतम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० । [पट्वीमयम्] पद्व्या आगतम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प० → मय । [कुमारी ब्राह्मणः] कुमार । 'वयस्यनन्त्ये' (२०४।२१) डी । कुमारीवाऽऽचरति । 'कर्तुः क्विप, गल्भ-क्लीव-होडात्तु डित्' (३।४।२५) क्विप्प० । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । अथवा 'क्यङ्' (३।४।२६) क्यप्र० → य । अनेन पुंवत् । कुमारीयतीति । क्विप्प० । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वयव्यञ्जने लुक्' (४।४।१२१) यलोपः । कुमारी Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy