SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । (२।१।११४) अन्त्यस्वरादिलोपः । [बहाबन्धूभार्यः] बहान् । बन्धु । ब्रा बन्धुरस्याः सा । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ' (२।४।७३) ऊड्प्र० → ऊ । ब्रह्मबन्धूर्भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । प्र० सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । करभोरुभार्यः] करभ । ऊरु करभस्येव ऊरू यस्याः सा । 'उपमान-सहित-संहित-सह-शफ-वाम-लक्ष्मणाद्यूरोः' (२१४७५) ऊड्प्र० →ऊ। 'समानानां०' (१४२११) दीर्घः । करभोरूर्भार्या यस्य सः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । प्र० सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (११३५३) विसर्गः । ऐडविडभार्या] इड(ड)विड़ । इडविडोऽपत्यम् । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → अ । 'द्रेरञणोऽप्राच्य भर्गादेः' (६।१।१२३) अञ्लोपः । इडविड् चासौ भार्या च । 'पुंवत् कर्मधारये' (३।२।५७) पुंवदावे कृते पुनरेव अञ् आगते 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । ऊङ्सदृशप्रत्ययान्तस्येत्यत्र लोपाभावात् ऊ साक्षात् प्रत्ययोऽन्यस्यापि साक्षात् प्रत्ययस्यैव स्यात्, न लुप्तस्य ।।छ।। . क्यङ् - मानि-पित्तद्धिते ॥३।२५०।। [क्यङमानिपित्तद्धिते] प् इदनुबन्धो यस्याऽसौ पित्, +पिच्चासौ तद्धितं च = पित्तद्धितम्, क्यङ् च मानी च *पित्तद्धितं च = क्यड्मानिपित्तद्धितम्, तस्मिन् । [श्येतायते] श्येत । 'श्यतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) डी-तस्य न० । 'अस्य इयां लुक' (२।४।८६) अलोपः । श्येनी इवाचरति । 'क्यङ्' (३।४।२६) क्यङ्म० → य । अनेन पुंवत्-डी गता । 'दीर्घश्च्चि-यङ्यक्क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [दर्शनीयमानी अयमस्याः] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । दर्शनीयां मन्यते । ‘मन्याणिन्' (५।१।११६) णिन्प्र० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । प्र० सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [दर्शनीयमानिनीयमस्याः] अग्रेतने 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२०४१) डी । [दर्शनीयमानिनी] अग्रेतने ‘परतः स्त्री०' (३।२।४९) पुंवत् । [अजथ्यं यूथम्] अजा । अजायै हितम् । 'अव्यजात् थ्यप्' (७।१।३८) थ्यप्प्र० → थ्य । अनेन पुंवत् । [बहुतिथी बेहु । 'स्वरादुतो गुणादखरोः' (२।४।३५) ङी । बह्वीनां पूरणी । “पित् तिथट् बहु-गण-पूग-संघात्' (७।१।१६०) पित्तिथटप्र० → तिथ । अनेन पुंवत् । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) डी । [पटुचरी] भूतपूर्वा पट्वी । 'भूतपूर्व प्चरट्' (७।२।७८) प्चरटप्र० → चर । अनेन पुंवत्-डीलोपः । ‘अणजेयेकण् नञ्-स्नञ्-टिताम्' (२।४।२०) डी । [बहुतः] बह्वीभ्यः = बहुतः । 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७।२१८९) पित् तस्प० । अनेन पुंवत् । P.5 करभवत् । P. + पिच्चासौ तद्धितश्च = पित्तद्धितः । P. * पित्तद्धितः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy