________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[" आस्पदं प्रतिष्ठायाम्", अन्यत्र आपदम् ] 'पदिंच् गतौ' (१२५७) पद्, आड्पूर्व० । आपद्यतें प्राप्यते सद्भिरिति । 'वर्षादयः क्लीवे' (५।३।२९) अल्प्र० अ । अनेन स० । आ ईषत् पदम् । 'आङल्पे ' ( ३।१।४६) तत्पुरुषः समासः । आपदाद्वा । ‘पर्यपा-ऽऽङ्-बहिरच् पञ्चम्या' (३1१1३२) अव्ययीभावः समासः ।
[" आश्चर्यं नीला द्यौः", अन्यत्र आचर्यं कर्म शोभनम् ] 'चर भक्षणे च' (४१०) चर्, आड्पूर्व० । आचर्यत इति । 'चरेराडस्त्वगुरौ' (५।१।३१) यप्र० । अनेन स० ।
२३
[“ग्राममध्ये प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः " अन्यत्र प्रतिकशोऽश्वः ] प्रति 'कश शब्दे' (४९०) कश् । का प्रतिकशने । अनेन । कशां प्रतिगतः । अच्प्र० ।
[" मस्करो वेणुदण्डयोः”, अन्यत्र मकरो ग्राहः ] मा 'डुकृंग् करणे' (८८८) कृ । मा क्रियते प्रतिषिध्यतेऽनेनेति । ‘पुन्नाम्नि घः' (५।३।१३०) घप्र० अ । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) गु० अर् । बाहुलकात् समासः । अनेन स्० । मकरो ग्राहः । ‘ग्रहीश् उपादाने ' (१५१७) ग्रह् । गृह्यत इति ग्राहः । ' वा ज्वलादि-दु-नी - भू-ग्रहा - SSस्त्रोर्णः' (५।१।६२)
णप्र० अ ।
[" मस्करी परिव्राजके" स ह्याह मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, अन्यत्र मकरीति समुद्रः ] मा 'डुकृंग् करणे' (८८८) कृ । अद्यतनी अन्त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अत० ।
[" कारस्करो वृक्षे", कारकरोऽन्यः ] कार 'डुकृंग् करणे' (८८८) कृ । कारं करोति । 'संख्या ऽह-दिवा-विभा-निशाप्रभा०' (५।१।१०२) टप्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन स्० ।
[" वनस्पतिः पुष्पं विना फलवति वृक्षे", वनपतिरन्यः ] वनस्य पतिः । अनेन स्० ।
[" पारस्करो देशे", पारकरोऽन्यः ] पारं करोतीति । ' हेतुतच्छीलाऽनुकूले' (५।१।१०३) टप्र० अ । अथवा 'लिहादिभ्यः' (५।१।५०) अच्प्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
घप्र०
[“करस्करो गिरि-वृक्षयोः”, करकरोऽन्यः ] 'कृत् विक्षेपे' (१३३४) कृ । कीर्यतेऽनेनेति । 'पुन्नाम्नि घः' (५।३।१३०) अ । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० अर् । करं करोतीति । 'संख्या - ऽह - दिवा-विभा०' (५।१।१०२) टप्र० → अ । 'नामिनो गुणोऽक्डिति' ( ४।३।१) गु० अर् । अनेन स्० ।
" रथस्पा नद्याम्", रथपाऽन्या ] रथ 'पां पाने' (२) पा । 'पांक रक्षणे' (१०६७) पा । रथं पिबति पाति वा = रथस्पा । ' आतो डोsवा-वा-मः' (५।१।७६) डप्र० अ ।
[" किष्कुरुः प्रहरणे "] कस्य कुरुः । अनेन म०प० ।
[ किष्किन्ध इति गुहा - पर्वतयोः ] किम् 'डुधांग्क् धारणे च' (११३९) धा । किमपा (प्य) न्तर्दधातीति । 'आतो डोऽहवावा-मः' (५।१।७६) डप्र० अ । 'डित्यन्त्यस्वरादेः ' (२।१।११४) आलोपः । वीप्सायाम्' (७।४।८०) किम् द्विर्वचनु । अनेन म० प० । 'आत्' (२।४।१८) आप्प्र० आ । किं किं दधातीति । 'आतो डोऽह्वा-वा-मः' (५1१1७६)
डप्र० । अनेन म०
ष० ।
[तस्करचौरे, अन्यत्र तत्करः ] तत् डुकृंग् करणे' (८८८) कृ । तत् करोतीति । 'किम्-यत्-तद्-बहोर:' ( ५|१|१०१ ) अप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन स्० ।
[" बृहस्पतिर्देवतायाम्", अन्यत्र बृहत्पतिः ] बृहतां पतिर्बृहस्पतिः । अनेन स्० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org