SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । दिवो द्यावा ।।३।२।४४।। [द्यावाक्षमे] द्यौश्च क्षमा च । औ । 'औता' (१।४।२०) ए । [द्यावानक्ते] द्यौश्च नक्तं च । औ । 'औरीः' (१।४।५६) ई । अनेन द्यावा आदेशः ॥छ।। दिवस् दिवः पृथिव्यां वा ।।३।२।४५।। [दिवस् दिवः] दिवश्च दिवश्च । औ । सूत्रत्वात् लोपः । [दिवस्पृथिव्यौ, दिवःपृथिव्यौ, द्यावापृथिव्यौ द्यौश्च पृथिवी च । औ । अनेन दिवस-दिवः आदेशः । 'दिवो द्यावा' (३।२।४४) द्यावा आदेशः । उषासोषसः ।।३।२।४६।। [उषासोषसः] उषासा । प्र० सि । सूत्रत्वात्.... । उषस् षष्ठी डस् । [उषासानक्तम] उषस । नक्तम | उषाश्च नक्तं च । सि-अम । अनेन "उषासा" आदेशः ।। [उषासानक्ते] उषाश्च नक्तं च । औ । 'औरीः' (१।४।५६) ई । अनेन 'उषासा' आदेशः ।।छ।। मातरपितरं वा ।।३।२।४७।। [मातरपितरम मातरश्च पितरश्च = मातरपितरम् । [मातरपितरौ, मातापितरौ, पितरौ] माता च पिता च, तौ । पक्षे 'आ द्वन्द्वे' (३।२।२९) आ । 'स्यादावसंख्येयः' (३।१।११९) एकशेषे पितरौ ।। [मातरपितराभ्याम, मातापितृभ्याम्] माता च पिता च, ताभ्याम् । पक्षे 'आ द्वन्द्वे' (३।२।३९) आ । [मातरपितरयोः, मातापित्रोः] माता च पिता च, तयोः । पक्षे 'आ द्वन्द्वे' (३।२।३९) आ ।छ।। वर्चस्कादिष्ववस्करादयः ।।३।२।४८।। [वर्चस्कादिषु] वर्चस् । कुत्सितं वर्चः = वर्चस्कम् । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्प० → क । 'सो रुः' (२११७२) स० → र० । 'प्रत्यये' (२१३६) र० → स० । वर्चस्क आदिर्येषां ते, तेषु । [अवस्करादयः] अवस्कर आदिर्येषां ते । ["अवस्करोऽन्नमलम्", अवकरोऽन्यः] 'कृत विक्षेपे' (१३३४) कृ, अवपूर्व० । अवकीयर्ते । 'युवर्ण-वृ-दृ-वश-रणगमृद्-ग्रहः' (५।३।२८) अल्प० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । अनेन स० । ["अपस्करो रथाले," अपकरोऽन्यः] अपकीर्यतेऽपस्करः । 'युवर्ण-वृ-दृ-वश०' (५।३।२८) अलप्र० → अ । ["कुस्तुम्बुरूणि", अन्यत्र कुतुम्बुरुस्तिन्दुकवृक्षः] कुत्सिता तुम्बुरुः । अनेन स० । बाहुलकात् लिङ्गता । कुस्तुम्ब(बु)रोरोषधेर्विकारः फलम् । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अणप्र० → अ । 'फले' (६।२।५८) अण्लुप् । प्र० जस । 'नपुंसकस्य शिः' (१।४।५५) शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । ["अवरस्पराः सार्था गच्छन्ति", अन्यत्र अवरपराः सार्था गच्छन्ति] अवरे च परे च । अपरे च परे च । अनेन स० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy