SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [वाय्वग्नी] वायुश्च अग्निश्च । [यूपचषालौ] यूपश्च चषालश्च । [उलूखलमुशले] उलूखलं च मुस(श)लं च । औ ॥छ।। ई: षोम-वरुणेऽग्नेः ।।३।२।४२।। [षोमवरुणे] # सोमश्च वरुणश्च = सोमवरुणम्, तस्मिन् । [अग्नीषोमौ]* अग्निश्च सोमश्च । औ । अनेन ष-ईश्च निपात्यते । [अग्नीवरुणौ] अग्निश्च वरुणश्च । औ । अनेन ई। [अग्नेन्द्रौ] अग्निश्च इन्द्रश्च । औ । ‘वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आ । [अग्निसोमौ माणवकौ+ अग्निश्च सोमश्च । औ ।।छ।। इर्वृद्धिमत्यविष्णौ ।।३।२।४३।। वृद्धिमत्यविष्णौ] वृद्धिर्विद्यते यस्याऽसौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत्, तस्मिन् । न विष्णुरविष्णुस्तस्मिन् । [आग्निवारुणीमनड़वाहीमालभेत अग्निश्च वरुणश्च । अग्नीवरुणौ देवता(ते) अस्याः । 'देवता' (६।२।१०१) अण्प० । 'देवतानामात्वादौ' (७।४।२८) उभयपदवृद्धिः । 'अणजेयेकण्'० (२।४।२०) डी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः । अनडुह गौरादित्वात् डी- वादेशश्च । [आग्निसौमं कर्म] अग्नीषोमो देवता(ते)ऽस्य तत् । देवतानामात्वादी' (७।४।२८) उभयपदवृद्धिः । [आग्निमारुतं कर्म] अग्निश्च मरुच्च । अग्नामरुतौ देवतेऽस्य । 'देवता' (६।२।१०१) अणप्र० → अ । 'देवतानामात्वादौ' (७।४।२८) उभयपदवृद्धिः । [अग्नीवरुणौ] अग्निश्च वरुणश्च । 'ईः षोम-वरुणेऽग्नेः' (३।२।४२) ई । [अग्नामरुतौ] अग्निश्च मरुच्च । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आ । [आग्नेन्द्रं कर्म] अग्ना(ग्नि)श्च इन्द्रश्च । 'वेदसहश्रुता०' (३।२१४१) आ । अग्नेन्द्रौ देवता(ते)ऽस्य तत् । 'देवता' (६।२।१०१) अणप्र० → अ । 'वृद्धि: स्वरेष्वादे०' (७।४।१) वृद्धिः आ । [आग्नावैष्णवं चरुं निर्वपेत्] अग्निश्च विष्णुश्च = अग्नाविष्णू । 'वेदसहश्रुता०' (३।२।४१) आ । अग्नाविष्णू देवता(ते)ऽस्य तत् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'देवतानामात्वादी' (७।४।२८) उभयपदवृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'डुवपी बीजसन्ताने' (९९५) वप् । सप्तमी यात् । 'यः सप्तम्याः ' (४।२।१२२) या० → इ० । 'अवर्णस्ये०' (१।२।६) ए छ।। P.; षोमश्च वरुणश्च, तत्, तस्मिन् । * श० म० न्या० - अत्र सोमशब्द एव कृतषत्वतया निर्दिष्टो न षोमशब्दोऽन्यः कश्चिदित्याह-षोमेति निर्देशादिति विशिष्य षत्वविधाने वाक्यभेदापत्तेः, पृथक् सूत्रविधाने च स्पष्टमेव गौरवमिति कृतषत्वनिर्देश एवाश्रितः, तच्चेदं षत्वमीकारादेशसन्नियोगशिष्टं तत्सत्त्व एव भवति, तदभावे न __भवति, "सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति न्यायात् । P. + अग्निरिव अग्निः । सोम इव सोमः । अग्निश्चासौ सोमश्च = अग्निसोमौ । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy