SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्टिका । [पितापुत्रौ] पिता च पुत्रश्च । [होतापुत्रौ] होता च पुत्रश्च । 卐 [दुहितापुत्रौ] दुहिता च पुत्रश्च । प्र० औ । अनेन आ ।।छ।। वेदसहश्रुताऽवायुदेवतानाम् ।।३।२।४१।। [वेदसहश्रुताऽवायुदेवतानाम्] सह श्रूयन्ते स्म इति श्रुताः, वेदे सह श्रुताः = वेदसहश्रुताः । न वायवोऽवायवः । अवायवश्च ता देवताश्च = अवायुदेवताः । वेदसहश्रुताश्च ता अवायुदेवताश्च = वेदसहश्रुताऽवायुदेवतास्तासाम् । सहश्रुतानां प्रसिद्धानामित्यर्थः । [इन्द्रासोमौ] इन्द्रश्च सोमश्च । [इन्द्रावरुणौ] इन्द्रश्च वरुणश्च । [इन्द्रापूषणौ] इन्द्रश्च पूपा च । [इन्द्राबृहस्पती] इन्द्रश्च वृहस्पतिश्च । [शुनासीरौ] शुनश्च सीरश्च = शुनासीरौ । [अग्नामरुतौ] अग्निश्च मरुच्च । [अग्नेन्द्रौ] अग्निश्च इन्द्रश्च । [अग्नाविष्णू अग्निश्च विष्णुश्च । [सोमारुद्रौ] सोमश्च रुद्रश्च । [सूर्याचन्द्रमसौ] सूर्यश्च चन्द्रमसश्च(चन्द्रमाश्च) । [मित्रावरुणौ मित्रश्च वरुणश्च । अनेन आ सर्वत्र । [शिववैश्रवणौ] विश्रवस् । विश्रवसोऽपत्यम् । ‘णश्च विश्रवसो विश्लुक् च वा' (६।११६५) अणप्र० → अ-णश्च-. विकल्पे विश्लुक् । 'प्रायोऽव्ययस्य' (७।४।६५) अस्लुक् । ‘वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ, वैश्रवण इति निष्पन्नः । शिवश्च वैश्रवणश्च । [स्कन्दविशाखौ] स्कन्दः-स्वामिकार्तिकेयः, विशाखो याचके-स्कन्दे । स्कन्दश्च विशाखश्च । [बहाप्रजापती] ब्रह्मा च प्रजापतिश्च । [विष्णुशक्रौ] विष्णुश्च शक्रश्च । [चन्द्रसूर्यो] चन्द्रश्च सूर्यश्च । [दिवाकरनिशाकरौ] दिवाकरश्च निशाकर! । [अग्निवायू अग्निश्च वायुश्च । 卐 न विद्यते इदमुदाहरणं वृहद्वृत्तौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy