________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
३४३
उपसर्गनियमार्थं वा । प्रपूर्वस्यैव वचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपसर्गपूर्वस्य ।
[अधिवाक्यं नाम दशरात्रस्य यज्ञस्य यदशममहः] अध्युच्यत इत्यधिवाक्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१1१११) च० → क० ।
दशन् । रात्रि । दशानां रात्रीणां समाहारः । 'संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९). अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । दशरात्रनिष्पाद्यो यज्ञोऽपि दशरात्र उपचारात्, तथा दशरात्रमस्याऽस्तीति अभ्रादित्वाद्वा अः । षष्ठी डस् ।
यज्ञ षष्ठी डस् । यद् प्रथमा सि । अहन् प्रथमा सि । 'अह्नः' (२।१७४) न० → रु० → र० । यस्मिन् याज्ञिका अधिबुवते तस्मिनि(ने)वाभिधानम् । अधिवाच्यमन्यत्र । प्रवचिग्रहणं शब्दसंज्ञार्थम् ।।छ।।
वचोऽशब्दनाम्नि ।।४1१1११९।।
[वचः] वच् षष्ठी डस् । [अशब्दनाम्नि] शब्दस्य नाम = शब्दनाम, न शब्दनाम = अशब्दनाम, तस्मिन् ।
[वाच्यमाह] # 'वचं परिभाषणे' (१०९६) वच् । उच्यत इति वाच्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[अवाच्यमाह] वा(नो)च्यते इति अवाच्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[वाक्यम्] उच्यत इति वाक्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) च० → क० । विशिष्टपदसमुदायः ।।छ।।
भुज-न्युजं पाणि-रोगे ।।४।११२०।।
[भुजन्युब्जम्] भुजश्च न्युब्जश्च = भुजन्युब्जम् । [पाणिरोगे] पाणिश्च रोगश्च = पाणिरोगम, तस्मिन् ।
[भुजः पाणिः] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यतेऽनेनेति भुजः पाणिः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । अनेन निपातः गत्वाऽभावो गुणाभावश्च ।
[न्युजो नाम रोगविशेषः] 'उब्जत् आर्जवे' (१३४८) उब्ज्, निपूर्व० । न्युब्जिताः शेरतेऽस्मिन्निति न्युजो नाम रोगविशेषः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । अनेन निपातो गत्वाऽभावः ।
[भोगः] भुज्यतेऽनेनेति । घञ्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च जोः क-गौ घिति' (४।१।१११) ज० → ग० ।
[न्युद्गः] न्युब्जनं = न्युद्गः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'न्यङ्कद्ग-मेघाऽऽदयः' (४।१।११२) न्युद्गनिपात्यते ।।छ।।
म लधुवृत्ती-वचं भाषणे । हैमधातुपारायणे-वचण भाषणे, संदेशने इत्येके (चन्द्रः) ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org