________________
३४४
वीरुन्-न्यग्रोधौ ||४|१|१२१।।
[वीरुन्न्यग्रोधौ] वीरुध् च न्यग्रोधश्च = वीरुन्न्यग्रोधौ । 'धुटस्तृतीयः' (२।१।७६) ध० द० । 'तृतीयस्य पञ्चमे ' (१।३।१) द० न० ।
[वीरुत्] ♛ रुहं जन्मनि प्रादुर्भावे (९८८) रुह्, विपूर्व० । विरोहतीति । 'क्विप्' (५।१।१४८) क्विप्प्र० । ‘गतिकारकस्य-नहि-वृति-वृषि-व्यधि- रुचि - सहि-तनौ क्वौ ' ( ३।२।८५) दीर्घः वी । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन हय ० । प्रथमा सि । 'दीर्घड्याब्-व्यञ्जनात् सेः ' (१।४।४५) सिलोपः । ' धुटस्तृतीयः' (२।१।७६) ध० द० । 'विरामे वा' (१।३।५१) द० त० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ न्यग्रोधः ] रुहं जन्मनि प्रादुर्भावे (९८८) रुह्, न्यग्पूर्व० । न्यग्रोहतीति । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० । अनेन हस्य ध० । 'च-जः क- गम्' (२।१।८६) च० क० । 'धुटस्तृतीयः' (२।१।७६) क० → ग० ।
[अवरोधः ] अवरोहतीति । अच्प्र० ।।छ।।
क्रियारत्नसमुच्चये हैमधातुपारायणे च 'रुहं जन्मनि' । वीजजन्मनि इत्यन्ये ।
Jain Education International
इति श्रीसिद्धहेमचन्द्रव्याकरणे बृहद्वृत्तौ चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥
For Private & Personal Use Only
www.jainelibrary.org