________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[धुरौ] धूर्वत इति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा औ । [धुरः] धूर्वन्तीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् ।
[तूर्णः] तूर्वति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन वलुक । भ्वादे मिनो०' (२।१।६३) दीर्घः । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) तस्य न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० → ण । प्रथमा सि ।
तूर्णवान्] तूर्वति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) त० → न० । 'र-घृवर्णान्नो ण०' (२।३।६३) नस्य ण० । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः ।
तूर्तिः] तूर्वणं = तूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
धूर्णः] धूर्वति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । अनेन वलुक् । 'डीय-श्व्यैदितः क्तयोः' (४।४।६१) इति इट् न भवति । 'भ्वादे मिनो०' (२११४६३) दीर्घः । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) तस्य न० । 'र-घृवर्णान्नो ण०' (२।३।६३) नस्य ण० ।
_ [धूर्णवान् धूर्वति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन वलुक् । 'डीय-श्व्यैदितः क्तयोः' (४।४।६१) इति इट् न भवति । 'भ्वादेर्नामिनो दीर्घो०' (२।१।६३) दीर्घः । 'रदादमूर्च्छ०' (४।२।६९) तस्य न० । 'र-पृवर्णान्नो ण०' (२।३।६३) नस्य ण० ।
[धृतिः] धूर्वणं = धूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । अनेन वलुक । भ्वादे मिनो०' (२।१।६३) दीर्घः ।
[धूर्तः] धूर्वतीति । 'शी-री-भू-दू-मू-घृ-पा-धाग्-चित्यर्त्यञ्जि-पुसि-मुसि-वुसि-विसि-रमि-धुर्वि-पूर्विभ्यः कित्' (उणा० २०१) कित् तप० । अनेन वलुक् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
मूर्छ] मूर्छनं = मूर्छ । 'भिदादयः' (५।३।१०८) अम० → अ । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० न भवति, आदितत्वात् निषेधः । 'आत्' (२।४।१८) आपप्र० → आ ।
[तूर्विता] तूर्वतीति । ‘णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'भ्वादे मिनो दीर्घो०' (२।१।६३) दीर्घः । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।।छ।।
तेऽनिटश्च-जोः क-गौ घिति ।।४।१।१११।।
[क्ते] ककारेणोपलक्षितस्तः क्तस्तस्मिन् ।
[अनिटः] न विद्यते इट् यस्मात् असौ अनिट, तस्य । [चजोः] चश्च ज् च = चजौ, तयोः । [कगौ] कश्च ग च = कगौ, प्रथमा औ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org