________________
३३४
• श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[होर्मा] 'हुर्छा कौटिल्ये' (१२५) हुर्छ । हुर्छतीति । 'मन्-वन्-क्वनिप्-विच-क्वचित्' (५।१।१४७) मन्प्र० । अनेन छलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
मूः मूर्छतीति क्विप् । अनेन छलुक । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । प्रथमा सि । 'दीर्घड्याव०' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः ।
[मुरौ] मूर्छत इति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा औ । [मुरः] मूर्छन्तीति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा जस् ।
[:] हुर्छतीति क्विप् । अनेन छलुक् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्या' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः ।
[हुरौ] हुर्छत इति क्विप् । अनेन छलुक् । ‘अप्रयोगीत्' (१।१।३७) क्विपलोपः । प्रथमा औ । हिरः] हर्छन्तीति क्विप् । अनेन छलुक । 'अप्रयोगीत्' (१1१1३७) विप्लोपः । प्रथमा जस् ।
[मूर्तः] मूर्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आदितः' (४।४।७१) इनिषेधः । अनेन छलुक् । 'भ्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः ।
मूर्तवान् मूर्छति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'आदितः' (४।४७१) इण्निषेधः । अनेन छलुक् । 'भ्वादे मिनो०' (२।११६३) दीर्घः ।
[मोमोर्ति] भृशं पुनः पुनर्वा मूर्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) "मु"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ।
[जोहोर्ति] भृशं पुनः पुनर्वा हुर्छति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यप्र० । 'सन्-यडश्च' (४।१।४) “हु"द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[तोर्मा] 'उर्वै' (४७०)- 'तुर्वे हिंसायाम्'( ४७१) तु । तूर्वतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन वलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु०ओ । प्रथमा सि ।
[धोर्मा] 'उर्वै' (४७०) - 'तुर्वे' (४७१) - 'थुर्वे' (४७२) - 'दुर्वे' (४७३) - “धुर्वं हिंसायाम्' (४७४) धु । धूर्वतीति । 'मन्-वन्-क्वनिप्-विच क्वचित् (५1१1१४७) मन्प० । अनेन वलुक् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि ।
[तूः] तूर्वतीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । ‘दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः ।।
[तुरौ] तूर्वत इति क्विप् । अनेन वलुक । 'अप्रयोगीत्' (१1१।३७) क्विपलोपः । प्रथमा औ ।
[तुरः] तुर्वन्तीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (११११३७) विप्लोपः । प्रथमा जस् ।
[धूः] धूर्वतीति क्विप् । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org