________________
३२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । अनेन दीर्घः । वर्त्त० तस् । ‘म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१३।३९) म० → न० ।
[तन्तान्तः] तम् । भृशं पुनः पुनर्वा ताम्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्वि: । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यड्लुप् । अनेन दीर्घः । वर्त्त० तस् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[दन्दान्तः] दम् । भृशं पुनः पुनर्वा दाम्यतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।११५१) मोऽन्तः । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । अनेन दीर्घः । वर्त० तस् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[ओदनपक्] ओदन 'डुपचींष् पाके' (८९२) पच् । ओदनं पचतीति क्विप् । 'अप्रयोगीत्' (११।३७) क्विप्लोपः । प्रथमा सि । ‘दीर्घझ्याब्०' (१।४।४५) सिलोपः । ‘च-जः क-गम्' (२।१।८६) च० → क० ।
[पक्त्वा ] पचनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वृत्रहणि] वृत्र 'हनं हिंसा-गत्योः ' (११००) हन् । वृत्रं हतवान् । 'ब्रह्म-भूण-वृत्रात् क्विप्' (५।१११६१) क्विप्प० । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी ङि- → इ । 'कवर्गकस्वरवति' (२।३।७६) न० → ण० ।
[भूणहनि] भूण ‘हनंक हिंसा-गत्योः ' (११००) हन् । भूणं हतवान् । 'ब्रहा-भ्रूण-वृत्रात् क्विप्' (५।१।१६१) क्विप्प० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । सप्तमी ङि → इ।
[गन्ता गम् । गच्छतीति । ‘णक-तृचौ' (५।१९४८) तृचप्र० →तृ । प्रथमा सि । 'ऋदुदनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा → आ । “डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) म० → न० ।
[यम्यते] 'यमूं उपरमे' (३८६) यम् । वर्त० ते । ‘क्यः शिति' (३।४।७०) क्यप्र० → य ।
[यंयम्यते] यम् । भृशं पुनः पुनर्वा यच्छति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'मुरतोऽनुनासिकस्य' (४।१५१) मोऽन्तः । वर्त्त० ते ।
कामति] कम् । कमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विपप्र० । मतान्तरे अनेन दीर्घः । 'अप्रयोगीत' (१1१1३७) विप्लोपः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् ।
[शामति शम् । शमिवाऽऽचरति । 'कर्तुः क्विप्' (३।४।२५) क्विप्प० । मतान्तरेऽनेन दीर्घः । 'अप्रयोगीत्' (११३७) क्विप्लोपः । वर्त्त० तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[कीमति] किम् । किमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विपप्र० । मतान्तरेऽनेन दीर्घः । 'अप्रयोगीत्' (११३७) क्विप्लोपः । वर्त० तिव् । 'कतर्यनद्भ्यः शव' (३।४।७१) शव् ।
[इदामति] इदम् । इदमिवाऽऽचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्प्र० । मतान्तरेऽनेन दीर्घः । ‘अप्रयोगीत्' (१।१।३७) विप्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव ।।छ।।
अनुनासिके च च्छ्-वः शूट ।।४।१।१०८।। [अनुनासिके] अनुनासिक सप्तमी ङि । [च्छ्वः ] च्छ् च व् च = च्छ्व, तस्य ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org