________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
३२७
अनेन विकल्पेन दीर्घः ।
[क्रमित्वा] क्रम् । क्रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ऊदितो वा' (४।४।४२) इट् ।
[प्रक्रम्य] प्रक्रमणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अत्र त्वन्तरङ्गमपि दीर्घत्वं बाधित्वा प्रागेव यप्, एतच्च ‘यपि चादो जग्ध्' (४।४।१६) इत्यत्र ज्ञापयिष्यते ।।छ।।
अहन्-पञ्चमस्य क्वि-क्डिति ।।४।१।१०७।। [अहन्पञ्चमस्य] न हा = अहा, अहा चासौ पञ्चमश्च = अहन्पञ्चमस्तस्य । [क्विक्डिति] क् च ङ् च = क्डौ, कडावितावनुबन्धो(धौ) यस्याऽसौ क्डित्, क्विश्च क्डिच्च = क्विक्डित्, तस्मिन् । हन्वर्जनादुपदेशावस्थायां पञ्चमान्तो गृह्यते, तेन सुगण इत्यत्र अदन्तत्वादुपदेशे न भवन्ति ।
[प्रशान्] 'शमू उपशमे' (१२३०) शम्, प्रपूर्व० । प्रशाम्यतीति क्विप् । ‘मो नो म्वोश्च' (२।१।६७) मस्य नकारः । 'नाम्नो नोऽनह्नः' (२।१।९१) इति परे नकारलोपकार्ये कर्त्तव्येऽसत् वेदितव्यः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । अनेन दीर्घः ।
[प्रतान्] 'तमूच् काङ्क्षायाम्' (१२३२) तम्, प्रपूर्व० । प्रताम्यतीति क्विप् । 'मो नो म्वोश्च' (२।१।६७) मस्य नकारः । 'नाम्नो नोऽनहुनः' (२।१।९१) इति परे नकारलोपकार्ये कर्त्तव्येऽसत् वेदितव्यः । 'अप्रयोगीत' (१1१1३७) क्विपलोपः । अनेन दीर्घः ।
[प्रदान] 'दमूच् उपशमे' (१२३१) दम्, प्रपूर्व० । प्रदाम्यतीति क्विप् । 'मो नो म्वोश्च' (२।१।६७) मस्य नकारः । 'नाम्नो नोऽनह्नः' (२।१९१) इति परे नकारलोपकार्ये कर्त्तव्येऽसत् वेदितव्यः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अनेन दीर्घः ।
[प्रशामौ] प्रशाम्यत इति क्विप् । अनेन सर्वत्र दीर्घः । 'अप्रयोगीत' (११३७) क्विपलोपः । औ । [प्रतामौ] प्रताम्यत इति क्विप् । 'अप्रयोगीत्' (१।१३७) विप्लोपः । औ । [प्रदामौ] प्रदाम्यत इति क्विप् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । औ । [शान्तः] शाम्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन दीर्घः ।
[शान्तवान शाम्यति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन दीर्घः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ।
[शान्त्वा] शमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन दीर्घः । [शान्तिः] शमनं = शान्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन दीर्घः । [तान्तः] ताम्यति स्म । क्तप्र० । अनेन दीर्घः । [दान्तः] दाम्यति स्म । क्तप्र० । अनेन दीर्घः ।
[शंशान्तः] शम् । भृशं पुनः पुनर्वा卐 शाम्यतः । व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१३)
P.
शाम्यति ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org