________________
अथ चतुर्थाध्यायस्य प्रथमः पाद: ।।
३१७
[अहं शुशव, शिश्वय] श्चि । परोक्षा णव् । अनेन वा य्वृत् । 'द्विर्धातुः परोक्षा-डे० ' (४।१1१) “शु"-"श्वि"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४११४४) अनादिव्यञ्जनलोपः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ-ए । 'ओदौतोऽवाव्' (१।२।२४) आव् । ‘एदैतोऽयाय्' (१।२।२३) अय् ।।
[शुशुवतुः, शिश्चियतुः] श्चि । परोक्षा अतुस् । अनेन वा य्वृत् । 'द्विर्धातुः परोक्षा-डे' (४1919) “शु" "श्वि"द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'संयोगात्' (२।११५२) इय् । 'धातोरिवर्णो०' (२।१५०) उव् ।
[शुशविथ, शिश्वयिथ] श्चि । परोक्षा थव् । 'स्क्रसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४।८१) इट् । शेषं पूर्ववत् ।
[शोशूयते, शेश्धीयते] श्चि । भृशं पुनः पुनर्वा श्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । अनेन वा वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । ‘सन्-यडश्च' (४।१।३) “शू". “श्वी''द्विः । 'हस्वः' (४।१।३९) हूस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ-ए । वर्त्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[शोशवीति, शेश्वयीति] श्चि । भृशं पुनः पुनर्वा श्वयति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्य० । अनेन वा वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । 'सन्-यडश्च' (४।१३) “शू"-"श्वी'"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ-ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् ।
अवित्परोक्षायां कित्त्वाद्यजादित्वेन प्राप्ते विति परोक्षायां यङि चाप्राप्ते विभाषा ॥छ।।
प्यायः पी ।।४।११९१।।
[प्यायः] प्याय् षष्ठी डस् । [पी] पी प्रथमा सि ।
[आपिप्ये] 'स्फायैङ् (८०४) - ‘ओप्यायैङ् वृद्धौ' (८०५) प्याय, आङ्पूर्व० । परोक्षा ए । अनेन प्याय् → पी० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “पी"द्विः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'योऽनेकस्वरस्य' (२।१५६) य० ।
[आपिप्यिरे] प्याय, आपूर्व० । परोक्षा इरे । अनेन प्याय० → पी । 'द्विर्धातुःपरोक्षा-डे०' (४११) “पी''द्विः । 'हूस्वः' (४।१३९) ह्रस्वः । 'योऽनेकस्वरस्य' (२।११५६) य० ।।
[पेपीयते] प्याय् । भृशं पुनः पुनर्वा प्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । अनेन प्याय० → पी० । 'सन्-यडश्च' (४।१।३) “पी"द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए ।
[प्रपेपीयते] प्याय, प्रपूर्व० । भृशं पुनः पुनर्वा प्रप्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । अनेन प्याय् → पी० । 'सन्-यडश्च' (४।१३) “पी'"द्विः । 'हूस्वः' (४।१३९) ह्रस्वः । 'आ-गुणावन्यादे:' (४।११४८) गु० ए। वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
दीर्घनिर्देशो यङ्लुबर्थः
[आपेपेति प्याय, आङ्पूर्व० । भृशं पुनः पुनर्वा आप्यायते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । अनेन प्याय → पी० । 'सन्-यङश्च' (४।१।३) “पी''द्विः । 'हस्वः' (४।१।३९) हूस्वः । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । 'बहुलं लुप' (३।४।१४) यङ्लुप । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । वर्त्तः तिव ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org