________________
३१६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
(४।१।३) "हु द्विः | 'ग-होर्ज : ' ( ४।१।४०) ह० ज० । इट् । गुणे सति अय् । 'नाम्यन्तस्था० ' (२|३|१५ ) षत्वम् । वर्त्त० तव् ।
णाविति विषयसप्तमीति किम् ? णिविषय एवान्तरङ्गमपि यकारं ( रागमं ) बाधित्वा य्वृद्यथा स्यात् ।
[ह्वाययति] ह्वा । ह्वयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'पाशा छा सा - वे व्या-हो-य:' (४।२।२०) योऽन्तः । वर्त्त० तिव् । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।।छ।। श्वेर्वा ||४|१|८९ ॥
[ : ] धि षष्ठी डस् ।
[व] वा प्रथमा सि ।
[ अशूशवत्, अशिश्वयत्] 'ट्वोश्वि गति-वृद्ध्योः ' ( ९९७) श्वि । श्वयन्तं प्रायुक्त । णिग्विषयेऽनेन वा वृत् वि० उ० । ‘नामिनोऽकलि-हले ः ' ( ४ | ३ |५१ ) वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । अद्यतनी दित् । 'ट्वे-वेर्वा' (३|४|५९) ड० अ । 'द्विर्धातुः परोक्षा-डे० ' ( ४।१।१) “शु द्विः । ' उपान्त्यस्याऽसमानलोपि ० ' ( ४।२।३५) ह्रस्वः । ‘लघोर्दीर्घोऽस्वरादेः' (४।१।६४ ) दीर्घः । 'णेरनिटि' ( ४ | ३ |८३) णिग्लोपः । 'संयोगात् ' (२।१।५२) इय् (?) | 'अड् धातोरादि०' (४।४।२९) अट्' ।
[शुशावयिषति, शिश्वाययिषति ] श्वि । श्वयन्तं प्रयोक्तुमिच्छति । अनेन विकल्पे य्वृत् । णिग्प्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः औ-ऐ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'एदैतोऽयाय्' (१।२।२३) आय् । शावयितुमिच्छति । श्वाययितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'सन् - यङश्च ' ( ४।१।३) “शु” - “श्विद्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४ ) अनादिव्यञ्जनलोपः । इट् । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२|३|१५ ) षत्वम् । वर्त्त० तिव् ।
[अशिश्वियत्] श्वि । अद्यतनी दि त् । ट्धे- धेर्वा ' ( ३।४।५९) प्र० । 'द्विर्धातुः परोक्षा- ङे०' (४।१।१) “श्वि’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' संयोगात् ' (२।१।५२ ) इय् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[शिश्वयिषति] श्वि । श्वयितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्- यङश्च' (४।१।३) “श्वि’द्विः । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । इट् । 'नामिनो गुणोऽक्डिति' ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । वर्त्त० तिव् ||छ ||
वा परोक्षा- यङि ॥४।१।९० ।।
[वा ] वा प्रथमा सि ।
परोक्षायङ्, तस्मिन् ।
[परोक्षायङि] परोक्षा च यङ् च = [ शुशाव, शिवाय ] वि । परोक्षाणव् अ । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “शु” - “श्विद्विः । अनेन वा पूर्वं य्र्वृत् ततो द्विः । ‘नामिनोऽकलि-हले ः ' ( ४।३।५१) वृद्धिः औ - ऐ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'एदैतोऽयाय्’
(१।२।२३) आय् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org