________________
३०८ mammnama
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
ANIMAVVNNNAVARANANAVANANAINA wwwwwwwwwwwwwwen
[यक्षीष्ट] यज् । आशीः सीष्ट । 'यज-सृज-मृज-राज०' (२।१।८७) ज० → ष० । 'ष-ढोः कस्सि' (२।१।६२) ष० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम्, क-पसंयोगे क्ष० ।
[वावच्यते] 'वचंक भाषणे' (१०९६) वच् । भृशं पुनः पुनर्वा वक्ति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० → य । ‘सन्-यङश्च' (४।१।३) "व"द्वि: । 'आ-गुणावन्यादेः' (४।१।४८) आ ।
विक्ता वच । श्वस्तनी ता । 'च-जः क-गम्' (२/१९८६) च० → क० ॥छ।।
स्वपेर्यङ्-डे च ।।४।१।८०।। [स्वपेः] स्वपि षष्ठी डस् । [यडे] यङ् च उश्च = यम्, तस्मिन् ।
[सोषुप्यते, सोषुपीति] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्वप् । भृशं पुनः पुनर्वा स्वपिति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० → य । अनेन वृत् व० → उ० । 'सन्-यडश्च' (४।१।३) “सु"द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) गु० ओ । सोषुपीति इत्यत्र 'लुप्यम्वृल्लेनत्' (७।४।११२) इति वृत् इति वृतो (न)निषेधात् यङ: स्थानित्वं 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् ।
णिमन्तरेण डस्यासंभवात् स्वपितेय॑न्तो लभ्यते
[असूषुपत] स्वप् । स्वपन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अद्यतनी दि → त् । “णिश्रि-द्रु-स्रु०' (३।४।५८) डा० → अ । अनेन य्वृत् व० → उ० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । द्विर्धातुः परोक्षा-२०' (४1919) “सुप"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४)पलुक । 'लघोर्दी?ऽस्वरादेः' (४।१।६४) दीर्घः ऊ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[सुषुपतुः] स्वप् । परोक्षा अतुस् । अनेन वृत् व० → उ० । 'द्विर्धातुः परोक्षा-२०' (४1919)“सुप्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) पलुक् ।
[सुप्यते] स्वप् । वर्त० ते । ‘क्यः शिति' (३।४।७०) क्यप्र० → य । अनेन वृत् व० → उ० । [सुप्यात्] स्वप् । आशीः क्यात्प्र० → यात् । अनेन य्वृत् व० → उ० ।।
[सुषुप्सति स्वप् । स्वप्तुमिच्छति । 'तुम दिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'रुद-विद-मुष-ग्रह-स्वप-प्रच्छ: सन् च' (४।३।३२) सन् कित् । कित्फलं अनेन य्वृत् । सन्-यडश्च' (४।१।३) "सु"द्वि: । 'लघोरुपान्त्यस्य' (४।३।४) गुणो न भवति ।
[असुषुपत्] स्वप् । स्वपनं = स्वापः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । ‘स्वापमकरोत्' । ‘णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० → इ । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । अद्यतनी दि → त् । “णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० । मतान्तरे अनेन य्वृत् । “सु"द्विः । 'अड् धातोरादि०' (४।४।२९) अट । 'णेनिटे' (४।३।८३) णिग(ज)लोपः । समानलोपित्वान्न दीर्घः ।।छ।।
P.'आद्योऽश एकस्वरः' (४।१।२) “सु"द्विः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org