________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
१७
ग०
→ क० ।
[दिशोदण्डः] वाचो युक्तिः । दिशो दण्डः । सम्वन्धषष्ठ्यौ ।।छ।।
अदसोऽकायनणोः ।।३।२।३३।।
[अकायनणोः] अकञ् च आयनण च = अकायनणौ, तयोः = अकञायनणोः । सप्तमी ओस् ।
[आमुष्यपुत्रिका] अदस् षष्ठ्यैकवचनं डस् । ‘आ द्वेरः' (२।१।४१) स० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'मोऽवर्णस्य' (२।१।४५) द० → म० । 'टा-डसोरिन स्यौ' (११४५) स्य । 'मादुवर्णोऽनु' (२११४४७) उ । अग्रे पुत्र । अमुष्य पुत्रस्य भावः ।+ 'चौरादिभ्योऽकञ्' (७।११७३) अकञ्प्र० → अक । ‘वृद्धिः स्वरेष्वादे० ' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२।४।१११) इ ।
[आमुष्यकुलिका] अमुष्य कुलस्य भावः ।++ 'चौरादिभ्योऽकञ्' (७।१।७३) अकञ्प्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप्प० → आ । 'अस्याऽयत्०' (२।४।१११) इ ।
[आमुष्यायणः] अमुष्यापत्यम् । *'नडादेरायनण' (६।११५३) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।।छ।।
देवानांप्रियः ।।३।२।३४।। [देवानांप्रियः] देवानां प्रियः । कथं देवप्रिय[:]? एकत्व-द्वित्वयोर्वहुव्रीहौ वा भविष्यति ।।छ।।
शेप-पुच्छलाङ्गुलेषु नाम्नि शुनः ।।३।२।३५।। [शेपपुच्छलाङ्गुलेषु]卐 शेपश्च पुच्छं च लाङ्लं च शेपपुच्छलाङ्लानि, तेषु । [शुनःशेपः] शुनः शेपमिव शेपमस्य सः ।
[शुनःपुच्छः] शुनः पुच्छमिव पुच्छमस्य सः ।
[शुनोलाङ्गुलः] शुनो लाङ्गुलमिव लाङ्गुलमस्य सः । [श्वशेपम्] शुनः शेपः । [श्वपुच्छम् शुनः पुच्छम् । [श्वलाङ्ग्लम्] शुनो लाङ्गुलम् ।।छ।।
वाचस्पति-वास्तोष्पति-दिवस्पति-दिवोदासम् ।।३।२।३६।। [वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्] वाचस्पतिश्च वास्तोष्पतिश्च दिवस्पतिश्च दिवोदासश्च = वाचस्पति
+ लघुवृत्ती- 'चोरादेः' । ++ लघुवृत्ती - 'चोरादेः' ।
* लघुवृत्तौ - 'नडादिभ्य आयनण्' । P.卐 शेपश्च पुच्छश्च लाङ्गुलश्च = ते, तेषु ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org