________________
१८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
वास्तोष्पतिदिवस्पतिदिवोदासम् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
वाचस्पतिः] वाचः पतिः ।
[वास्तोष्पतिः] वास्तोः पतिः । [दिवस्पतिः] दिवः पतिः । [दिवोदासः] दिवो दासः । अनेन निपातः । [वाक्पतिः] वाचः पतिः ।
[वास्तुपतिः] वास्तोः पतिः ।
[धुपतिः] दिवः पतिः । [धुदासः] दिवो दासः । 'ऐकार्थ्य' (३१२१८) विभक्तिलोपः ।।छ।।
ऋतां विद्या-योनिसंबन्धे ॥३।२।३७।। [विद्यायोनिसंबन्धे] विद्या च योनिश्च = विद्यायोनी, विद्यायोनिभ्यां सम्बन्धः = विद्यायोनिसम्बन्धस्तस्मिन् ।
[होतुः पुत्रः] होतुः पुत्रः ।
होतुरन्तेवासी] 'वसं निवासे' (९९९) वस । अन्ते वसितं शीलमस्य । 'अजातेः शीले' (५।११५४) णिनप्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । होतुरन्तेवासी । प्र० सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याव०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहनः' (२११९१) नलोपः ।
[पितुरन्तेवासी] 'वसं निवासे' (९९९) वस् । अन्ते वसितुं शीलमस्य । 'अजातेः शीले' (५/१/१५४) णिन्प्र० → इन् । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । पितुरन्तेवासी । प्र० सि । ‘इन्-हन-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'नाम्नो नोऽनहुनः' (२११।९१) नलोपः ।
[आचार्यपुत्रः] आचार्यस्य पुत्रः ।
[मातुलान्तेवासी] मातृ । मातुर्धाता । 'पितृ-मातुर्व्य-डुलं भ्रातरि' (६।२।६२) डुलप्र० → उल । 'डित्यन्त्यस्वरादः' (२।१।११४) ऋलोपः । मातुलस्याऽन्तेवासी ।
[भर्तृगृहम्] भर्तुर्गृहम् । [भर्तृशिष्यः] भर्तुः - स्वामिनः शिष्यः । [होतृधनम्] होतुर्धनम् । [पितृगृहम्] पितुर्गृहम् ।।।।
स्वसृ-पत्योर्वा ।।३।२।३८।।
[स्वसृपत्योः] स्वसा च पतिश्च = स्वसृपती । तयोः = स्वसृपत्योः । सप्तमी ओस् ।
[होतुःस्वसा, होतृस्वसा] होतुः स्वसा ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org