________________
१६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[स्थण्डिलशायी] स्थण्डिले शयितुं शीलमस्य सः । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । प्र० सि । ‘इन्-हन्-पूपाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[सांकाश्यसिद्धः] संकाश । संकाशेन निवृत्तम् । 'सुपन्थ्यादेयंः' (६।२।८४) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सांकाश्ये सिद्धः ।
[काम्पील्यसिद्धः] काम्पील्ये सिद्धः ।
[समस्थः] 'ष्ठां गतिनिवृत्तौ' (५ ) ष्ठ । 'पः सोऽष्ट्यै-प्ठिव-प्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या०स० वक्ष०(१) सूत्र(२९)) स्था । समे तिष्ठतीति । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः ।
विषमस्थः] विषमे तिष्ठतीति । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । ‘इडेत्-पुसि०' (४।३।९४) आलोपः ।।छ।।
षष्ठयाः क्षेपे ।।३।२।३०।।
[बाह्मणकुलम्] ब्राह्मणस्य कुलम् ।
[चौरकुलम चुरण स्तेये' (१५६८) चुर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । चोरणं = चुरा । 'भिदादयः' (५।३।१०८) अप्र० । 'णेरनिटि' (४।३।८३) णिचलोपः । 'अस्थाच्छत्राऽऽदेरञ्' (६।४।६०) अप्र० → अ । 'वृद्धिः स्वरेप्वादे०' (७।४।१) वृद्धि: औ । 'अवर्णवर्णस्य' (७।४।६८) आलोपः । चौरस्य कुलम् ।
[दासभार्या] दासस्य भार्या । [वृषलीपतिः] वृषल्याः पतिः ।।छ।।
पुत्रे वा ।।३।२।३१।।
[बाह्मणपुत्रः] ब्राह्मणस्य पुत्रः । [दासीपुत्रः] दास्याः पुत्रः ।।छ।।
___ पश्यद्-वाग-दिशो हर-युक्ति-दण्डे ।।३।२।३२।। [पश्यद्वाग्दिशः] पश्यंश्च वाग् च दिग् च = पश्यद्वाग्दिक, तस्मात् । [हरयुक्तिदण्डे] हरश्च युक्तिश्च दण्डश्च = हरयुक्तिदण्डम्, तस्मिन् ।
[पश्यतोहरः] 'दृशं प्रेक्षणे' (४९५) दृश् । पश्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति कृवु-धिवु०' (४१२।१०८) पश्य आदेशः । अनादरे पष्ठी डस् ।॥ पश्यतो हरः । 'याजकादिभिः' (३।१७८) तत्पुरुषः समासः ।
[वाचोयुक्तिः] 'युजूंपी योगे' (१४७६) युज् । योजनम् । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'क्तेऽनिटश्चजोः०' (४।१।१११) ज०→ ग० (?) ('च-जः क-गम्' (२।१८६) ज० → ग०) । 'अघोपे प्रथमोऽशिटः' (१३५०)
P.卐 पश्यतो हरतीति । 'अच्' (५/११४९) अच्प्र० → अ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org