SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥ [वरेजः, वरजः ] वरे जातः । [अप्सुजम्, अब्जम्] अप्सु जातः (तम्) । 'धुटस्तृतीयः ' (२।१।७६) प०व० । [ सरसिजम्, सरोजम् ] सरसि जातम् । [शरेजः, शरजः ] शरे जातः । [उरसिजः, उरोजः ] उरसि जातः । [ मनसिजः, मनोजः ] मनसि जातः । सर्वत्र 'सप्तम्याः' (५।१।१६९) डप्र० अ० । 'डित्यन्त्यस्वरादेः' ( २।१।११४) अनुलोपः ॥ छ || - प्रावृड्-वर्षा शरत्- कालात् || ३ | २|२७|| [द्युप्रावृड्वर्षाशरत्कालात्] द्यौश्च प्रावृट् च वर्षा च शरच्च कालश्च = द्युप्रावृड्वर्षाशरत्कालम्, तस्मात् । [दिविजः] 'दिवूच् क्रीडा-जयेच्छा - पणि-द्युति-स्तुति-गतिषु' (११४४ ) दिव् । दीव्यतीति । 'दिवेर्डिव्' ( उणा० ९४९) डिद् इब्प्र० । ‘डित्यन्त्यस्वरादेः ' (२।१।११४ ) इक्लोपः । दिवि जातः । [प्रावृषिजः ] प्रावृषि जातः । [ वर्षासुजः ] वर्षासु जातः । १५ [ शरदिजः ] शरदि जातः । [ कालेज : ] काले जातः । सर्वत्र 'सप्तम्याः ' ( ५।१।१६९) डप्र० अ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः ||छ || अपो य-योनि-मति-चरे || ३ |२|२८|| [ययोनिमतिचरे] यश्च योनिश्च मतिश्च चरश्च = ययोनिमतिचरम्, तस्मिन् । [ अप्सव्यः ] अप्सु भवः । 'दिगादिदेहांशाद् य:' ( ६ | ३|१२४) यप्र० । 'अस्वयम्भुवोऽव्' (७१४ । ७० ) अबू । [ अप्सुयोनिः ] अप्सु योनिरस्य । [ अप्सुमतिः ] अप्सु मतिरस्य । [ अप्सुचरः ] 'चर भक्षणे च' (४१०) चर् । अप्सु चरतीति । 'चरेष्टः' (५/१/१३८) टप्र० अ ॥छ । नेन्-सिद्ध-स्थे ।।३।२।२९।। [इन्सिद्धस्थे ] इन् च सिद्धश्च स्थाश्च = इन्सिद्धस्थम् । 'क्लीवे' (२।४।९७) ह्रस्वः, तस्मिन् । नञाधिकारे पुनः नञ्ग्रहणं प्रकृत्यर्थं गमयति । 'द्वौ नञौ प्रकृतमर्थं गमयतः' (न्या० स० वक्ष० (२) सूत्र ( ६० ) ) । शीलमस्य सः । ' अजातेः शीले' (५1१1१५४) [स्थण्डिलवर्ती] 'वृतूङ् वर्तने' (९५५) वृत् । स्थण्डिले वर्तितुं णिन्प्र० →इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । P. स्थण्डिले वर्त्तते इत्येवंशीलः । ' व्रता- Sऽभीक्ष्ण्ये' (५1919५७) णिन्प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy