________________
३०२
[य्] य् प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः ।
पूर्वस्येति निवृत्तमसंभवात् ।
[ऊयतुः, ऊयुः ] 'वेंग् तन्तुसन्ताने' (९९२) वे । 'वेर्वय्' (४।४।१९ ) वे० वय्० । परोक्षा अतुस् - उस् । 'यजादिवचेः किति' (४।१।७९) य्वृत् व० उ० । 'यजादि - वश् वचः सस्वरान्तस्था वृत्' (४।१।७२) इति य्वृत् प्राप्नोति यकारस्य त्वनेन निषेधः । द्वि० “उय्" । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४ ) यलुक् । 'समानानां तेन दीर्घः । (१।२।१) दीर्घः ।।छ।।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका ।
वेरयः ||४|१|७४ ||
[वे ] वे षष्ठी डस् । 'एदोद्भ्यां इसि - डसो रः' (१।४।३५) डस्०र० ।
[ अयः ] न य्
अय्, तस्य ।
[ववौ] ‘वेंग् तन्तुसन्ताने’ (९९२) वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) वा । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) “वा 'द्विः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'आतो णव औ' (४।२।१२० ) औ । 'ऐदौत् सन्ध्यक्षरैः ' (१।२।१२ ) औ ।
=
[वविथ] ‘वेंग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) वा । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) " वा "द्विः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'सृजि- दृशि - स्कृ०' (४।४।७८) इट । 'इडेत्-पुसि चाऽऽतो लुक्' (४१३१९४) आलोपः ।
[उवाय] 'वेंगू तन्तुसन्ताने' (९९२) वै । परोक्षा णव् । 'वेर्वय्' (४|४|१९ ) वे० वय्० । 'द्विर्धातुः परोक्षाडे०' (४।१।१) “वय्’द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलुक् । 'यजादि - वश्०' (४।१।७२ ) य्वृत् व० उ० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[ उवयिथ] ' वेंग् तन्तुसन्ताने' (९९२) वे । परोक्षा थव् । 'वेर्वय्' (४|४|१९) वे० वय्० । 'द्विर्धातुः परोक्षाङे० ' (४।१।१) "वय् 'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४ ) यलुक् । 'यजादि- वश्०' (४।१।७२ ) वृत् व० उ० । 'स्क्रसृ-वृ-भृ-स्तु-दु०' (४|४|८१ ) इट् ||छ ।
Jain Education International
अविति वा ||४|१|७५ ||
[अविति] व् इत् अनुबन्धो यस्याऽसौ वित्, न वित् = अवित्, 'नञत्' (३।२।१२५) न० अ० तस्मिन् । [वा ] वा प्रथमा सि ।
[ववतुः, ऊवतुः] 'वेंग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) वा । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “वा 'द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ' इडेत्-पुसि चाऽऽतो लुक्' (४ । ३ । ९४ ) आलोपः । अन्यत्र प्रथमं 'यजादि वचे: ० ' ( ४।१।७९) वृत् वा० उ० । द्विः "उ" । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) उव् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[ववुः, ऊवुः] वे । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) वा । परोक्षा उस् । 'द्विर्धातुः परोक्षा- ङे० ' ( ४।१।१) “वा”द्विः । ' ह्रस्वः' ( ४।१।३९) ह्रस्वः । ' इडेत्-पुसि० ' ( ४१३ १९४) आलोपः । अन्यत्र प्रथमं 'यजादि वचे: ० ' (४।१।७९) वृत् वा० → उ० । द्विः ‘“उ’” । ‘धातोरिवर्णोवर्णस्येयुव०' (२।१।५० ) उव् । 'समानानां तेन दीर्घः' (१।२1१) दीर्घः ।
For Private & Personal Use Only
www.jainelibrary.org