________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३०३
[ऊयतुः, ऊयुः] वे | परोक्षा अतुस्-उस् । 'वेर्वय्' (४।४।१९) वे० → वय० । 'यजादि-वचे:०' (४।१७९) वृत् व० →उ० । 'यजादि-वश्-वच:०' (४१७२) इति य्वृत् प्राप्नोति यकारस्य तस्य 'न वयो य्' (४११७३) इत्यनेन निषेधः । द्वि० "उय्" । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।।छ।।
ज्यश्च यपि ||४|१७६।।
[ज्यः] ज्या षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [च] च प्रथमा सि । [यपि] यप् सप्तमी ङि ।
[प्रज्याय, उपज्याय] ‘ज्यांश् हानौ' (१५२४) ज्या, प्र-उपपूर्व० । प्रज्यानं पूर्वम् । उपज्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । . 'ज्या-व्यधः क्डिति' (४।१।८१) इति य्वृत् प्राप्तेऽनेन प्रतिषेधः ।
[प्रवाय, उपवाय] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४२११) वा, प्र-उपपूर्व० । प्रवाणं पूर्वम् । उपवानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।।छ।।
व्यः ||४|१७७||
[व्यः] व्या षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः ।
[प्रव्याय, उपव्याय] 'व्यंग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, प्र-उपपूर्व० । प्रव्याणं पूर्वम् । उपव्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् ॥छ।।
सं-परेर्वा ।।४।१७८।। [संपरे:] सम् च परिश्च = संपरि, तस्मात् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः ।
[संव्याय, संवीय] 'व्येग संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२19) व्या, संपूर्व० । संव्यानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'यजादि-वचेः किति' (४।१७९) य्वृत् या० → इ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः ।
[परिव्याय, परिवीय] 'व्यंग् संवरणे' (९९३) व्ये | 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या, परिपूर्व० । परिव्यानं पूर्वम् । शेषं पूर्ववत् ।
निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव य्वृतो दीर्घत्वं, न तु तोऽन्तः ।।छ।।
यजादि-वचेः किति ।।४।१७९।।
[यजादिवचेः] ॥ यजादयश्च वचिश्च = यजादिवचि, तस्य ।
P.
यज़ आदिर्यस्य सः = यजादिः, यजादिश्च वचिश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org