SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [आदेराः] आदि षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए० । 'एदोद्भ्यां०' (१।४।३५) र० । आ प्रथमा सि । [परोक्षायाम] परोक्षा सप्तमी ङि । 'आपो डितां०' (१।४।१७) डि० → याम् । [आटतुः] 'अट गतौ' (१९४) अट् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “अट्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) टलुक् । अनेन अ० → आ० । आटिय] [आटुः] अट् । परोक्षा उस् । शेषं 'आटतुः' वत् । [आटिथ] अट् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-२०' (४191१) “अट्"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) टलुक् । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४८१) इट् । [आदतुः] 'अदं भक्षणे' (१०५९) अद् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे' (४११) "अद्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । अनेन अ० → आ० । [आदुः] अद् । परोक्षा उस् । शेषं 'आदतुः' वत् । " [आदिथ] अद् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे' (४।१।१) “अद्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) दलुक् । 'ऋ-वृ-व्ये-ऽद इट्' (४।४।८०) इट् । अनेन अ० → आ० । [ईयतुः] 'इंण्क् गतौ' (१०७५) इ । परोक्षा अतुस् । द्वि: मूलधातोः । ‘इणः' (२।१५१) इय् । 'समानानां०' (१२/१) दीर्घः । [ईयुः] 'इंण्क् गतौ' (१०७५) इ । परीक्षा उस् । शेषं 'ईयतुः' वत् । [पपाच] (४।१।४२) सूत्रवत् । परोक्षायामिति उत्तरार्थः । अन्यस्मिन् प्रत्यये द्वित्वे सति पूर्वस्यासंभवात् ।।छ।। अनातो नश्चान्त ऋदाद्यशौ-संयोगस्य ।।४।१।६९।। [अनातः] न विद्यते आत् स्थानित्वेन यस्य सः = अनात् । 'अन् स्वरे' (३।२।१२९) अन्, तस्य । [नः] न प्रथमा सि । [च] च प्रथमा सि । [अन्तः] अन्त प्रथमा सि । [ऋदाद्यशौसंयोगस्य] ऋत् आदिर्यस्याऽसौ ऋदादिः, ऋदादिश्च अशौश्च संयोगश्च = ऋदाद्यशौसंयोगम्, तस्य । [आनृधतुः] 'ऋधूट वृद्धौ' (१३०६) ऋध् । परोक्षा अतुस । 'द्विर्धातुः परोक्षा-डे०' (४।११) "ऋध''द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अकारस्य आ-नोन्तश्च । [आनृधुः] ऋध् । परोक्षा उस् । शेषं 'आनृधतुः' वत् । [आनृजे] 'ऋजि गतिस्थानार्जनोर्जनेषु' (६६४) ऋज् । परोक्षा ए । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “ऋज्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अकारस्य आ-नोन्तश्च । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy