________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
२९५
(९२६) इत्यस्य स्थाने+ पशी-स्पशी इति केचित् पठन्ति । ‘स्पशिण ग्रहण-श्लेषणयोः' (१८४२) इति यौजादिकस्य वा स्पश् ।
त कश्चित, तमन्यः प्रायुक्त । 'प्रयोक्तव्यापारे णिग' (३।४।२०) णिगप्र० । अद्यतनी दि → त । 'णि-श्रि-द्व-स्त्र०' (३।४।५८) ङप्र० । द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । 'अघोषे शिटः' (४।१।४५) सलोपः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
‘स्पशिण ग्रहण-श्लेषणयोः' (१८४२) स्पश् इत्यस्य तु अपस्पशत कश्चित्, तमन्यः प्रायुक्त । शेषं पूर्ववत् ।।छ।।
वा वेष्ट-चेष्टः ।।४।११६६।।
[वा] वा प्रथमा सि । [वेष्टचेष्टः] वेष्टश्च चेष्टश्च(ट् च) = वेष्टचेष्ट, तस्य ।
[अववेष्टत्, अविवेष्टत्] 'वेष्टि वेष्टने' (६७३) वेष्ट । वि(वे)ष्टमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अद्यतनी दि → त् । 'णि-श्रि-द्रु-उ०' (३।४।५८) डा० । 'द्विर्धातुः परोक्षा डे०' (४।१।१) “वेष्ट्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन वे० → व० । 'इस्वः' (४।१।३९) इस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अचचेष्टत्, अचिचेष्टत्] 'चेष्टि चेष्टायाम्' (६७०) चेष्ट् । चेष्टमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डा० । द्विर्धातुः परोक्षा-२०' (४।१।१) "चेष्ट्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन चे० → च० । 'हस्वः' (४।१।३९) ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।।
ई च गणः ।।४।१।६७।।
[ई] ई प्रथमा सि, स्वतन्त्रत्वात् । [च] च प्रथमा सि । [गणः] गण षष्ठी ङस् ।
[अजीगणत्, अजगणत्] 'गणण् संख्याने' (१८७४) गण । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलोपः । अद्यतनी दि → त् । “णि-श्रि-दु-उ०' (३।४।५८) ङप्र० ++ 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ग-होर्जः' (४।१।४०) ग० → ज० । अनेन ई विकल्पेन । ‘णेरनिटि' (४।३।८३) णिग्(च)लोपः । 'अड् धातोरादि०' (४!४।२९) अट् । गणेरदन्तत्वेन समानलोपित्वात् सन्वद्रावो दीर्घत्वं च न प्राप्नोतीतित्वविधिः ।।छ।।
अस्याऽऽदेराः परोक्षायाम् ।।४।१।६८।। [अस्य] अ षष्ठी डस् । 'टा-डसोरिन-स्यौ' (१।४५) डस् → स्य ।
+ उक्तं च धातुरत्नाकरे - पषी बाधनस्पर्शनयोः इति मूर्धन्यान्तः, तालव्यान्तः, दन्त्यान्तश्च आचार्यभेदेन । P. 'आद्योऽश एकस्वरः' (४।१।२) “वे" द्विः । P. 'आद्योऽश एकस्वरः' (४।१।२) "चे" द्विः ।
P. ++ 'आद्योऽश एकस्वरः' (४।१।२) "ग" द्विः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org