________________
२९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[अचकथत्] (४।१।६३) सूत्रवत् । [अददृषत्] (४।१।६३) सूत्रवत् ।
[अवीवदद्वीणां परिवादकेन] (४।१।६३) सूत्रवत् ।।छ।।
स्मृ-दृ-त्वर-प्रथ-मद-स्तृ-स्पशेरः ।।४।१।६५।। [स्मृदृत्वरप्रथमदस्तृस्पशेः] स्मृश्च दृश्च त्वरश्च प्रथश्च प्रदश्च स्तृश्च स्पशिश्च = स्मृदृत्वरप्रथम्रदस्तूस्पशि, तस्य । [अ] अ प्रथमा सि ।
[असस्मरत] 'स्मृ चिन्तायाम्' (१८) स्मृ । स्मरन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् । 'घटादेईस्वो दीर्घस्तु वा त्रि-णम्परे' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । “णि-श्रि-द्रु-सु०' (३।४।५८) डा० । द्विः । अनेन पूर्वस्य अ० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अददरत्] 'दृश् विदारणे' (१५३५) दू । दृणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः आर् । 'घटादेईस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) डप० । द्विः । अनेन पूर्वस्य अ० । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् । अत्र परत्वात् दी? न भवति ।
[अतत्वरत्] 'जित्वरिष् संभ्रमे' (१०१०) त्वर् | त्वरमाणं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) हूस्वः । अद्यतनी दि→ त् । 'णि-शि-दु-उ०' (३।४।५८) ङप्र० । 'व्यञ्जनस्याऽनादेर्लुक' (४१११४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिगलोपः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
[अपप्रथत्] 'प्रथिष् प्रख्याने' (१००३) प्रथ् । प्रथमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि→त् । 'णि-श्रि-द्रु-सु०' (३।४।५८) उप० । द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अमम्रदत्] 'म्रदिष् मर्दने' (१००४) म्रद् । म्रदमानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'घटादेहूस्वो०' (४।२।२४) ह्रस्वः । अद्यतनी दि → त् । ‘णि-श्रि-दु-सु०' (३।४।५८) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अतस्तरत्] 'स्तृगश् आच्छादने' (१५२१) स्तू । स्तृणन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अद्यतनी दि → त् । ‘णि-श्रि-द्रु-सु०' (३।४।५८) डप्र० । द्वि: । 'अघोषे शिटः' (४।१।४५) सलोपः । ‘ह्रस्वः' (४।१+३९) ह्रस्वः । ‘उपान्त्यस्याऽसमानलोपि०' (४।२।३५) ह्रस्वः । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[अपस्पशत पशी (६८) - 'स्पशी बाधनग्रथनयोश्च' (६९) स्पशि(शी)ति सौत्रो धातुः । 'पषी बाधन-स्पर्शनयोः' ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org